Table of Contents

<<6-3-53 —- 6-3-55>>

6-3-54 हिमकाषिहतिसु च

प्रथमावृत्तिः

TBD.

काशिका

हिम काषिन् हति इत्येतेषु पादशब्दस्य पदित्ययम् आदेशो भवति। हिम पद्धिमम्। काषिन् अथ पत्काषिणो यन्ति। हति पद्धतिः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

977 हिमकाषि। एषु परेषु पादस्य पत्स्यादित्यर्थः। पद्धिममिति। पादस्य हिममिति विग्रहः। पत्काषीति। पादौ पादाभ्यां वा कषतीत्यर्थः। `सुप्यजातौ' इति णिनिः। पद्धतिरिति। हन्यते इति हतिः। कर्मणि क्तिन्। पादाभ्यां हतिरिति विग्रहः। `कर्तृकरणे कृते'ति समासः।

तत्त्वबोधिनी

833 पत्काषीति। `सुप्यजाता'विति णिनिः। पद्धितिरिति। कर्मणि क्तिन्।

Satishji's सूत्र-सूचिः

TBD.