Table of Contents

<<5-4-42 —- 5-4-44>>

5-4-43 सङ्ख्याएकवचनाच् च वीप्सायाम्

प्रथमावृत्तिः

TBD.

काशिका

सङ्ख्यावाचिभ्यः प्रातिपदिकेभ्यः एकवचनाच् च वीप्सायां द्योत्यायां शस्प्रत्ययो भवति अन्यतरस्याम्। द्वौ द्वौ मोदकौ ददाति द्विशः। त्रिशः। एकवचनात् खल्वपि कार्षापणं कार्षापणं ददाति कर्षापणशः। माषशः। पादशो ददाति। एको ऽर्थ उच्यते येन तदेकवचनम्। कार्षापणादयश्च परिमाणशब्दाः वृत्तावेकार्था एव भवन्ति। सङ्ख्यैकवचनातिति किम्? घटं घटं ददाति। वीप्सायाम् इति किम्? द्वौ ददाति। कार्षापणम् ददाति। कारकातित्येव, द्वयोर् द्वयोः स्वामी। कार्षापणस्य कार्षापणस्य स्वामी।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

प्रतियोगे। विहितेति। `प्रतिः प्रतिनिधिप्रतिदानयो'रिति प्रते कर्मप्रवचनीयत्वे तद्योगे `प्रतिनिधिप्रतिदाने च यस्मा'दिति पञ्चमी विहितेत्यर्थः। प्रद्यचुम्नः कृष्णतः प्रतीति। कृष्णस्य प्रतिनिधिरित्यर्थः। आद्यादिभ्य इति। अयं सार्वविभक्तिकस्तसिः। अपादाने चाऽहोयरुहोः। `अहीयरूहो'रिति छेदः। `हीयते' इत्यादौ कर्मणि लकारे यगन्तस्य एकदेशस्य `हीये'त्यनुकरणम्। हीयरुहोः संबन्धि यन्न भवति तन्मिन्नपादाने इत्यर्थः। अतिग्रहा व्यथने अतिक्रम्य ग्रह इति। लोकवृत्तमतिक्रम्य तद्विलक्षणतया प्रतीयमानत्वमित्यर्थः। चारित्रेणेति। चरित्रमेव चारित्रम्, तेन हेतुना इतरविलक्षणत्वेन दृश्यते इत्यर्थः। फलितमाह–अन्यानतिक्रम्य वर्तत इति। `व्यथ भयसंचलनयो'रिति चलनार्थाल्ल्युटि व्यथनशब्दः। तदाह–अव्यथनमचलनमिति। क्षेपे इति। `उदाह्यियते' इति शेषः। क्षेपो निन्दा। हीयमानपापयोगाच्च। हीयमानेति। हीयमानयुक्तात् पापयुक्ताच्चेत्यर्थः। ननु पूर्वसूत्रे क्षेपग्रहणादेव सिद्धे किमर्थमिदमित्यत आह–क्षेपस्याऽविवक्षायामिति। तत्त्वकथने इत्यर्थः। षष्ट\उfffदा व्याश्रये ष। नानापक्षसमाश्रयणे इति। सर्वसाधारण्यं विहाय एकपक्षाश्रय इति यावत्। पक्षः–स्वीयत्वेन परिग्रहः। देवा अर्जुनतोऽभवन्निति। अर्जुनस्य पक्षे आसन्नित्यर्थः। रोगाच्चा। रोगस्य प्रतीकारः–चिकित्सा। प्रवाहिकात इति। विषूचिकाप्रतीकारमित्यर्थः।

तत्त्वबोधिनी

1571 परिमाणशब्दा इति। तथा चैकवचनग्रहणेन एकोऽर्थ उच्यते येनेत्यर्थकेन वृत्तावेकार्थतानियताः परिमाणशब्दा एव गृह्रन्त इति भावः। माषं माषमिति। माषदातेत्युक्ते माषमात्रस्य हिरण्यादेर्दातेति प्रतीयते, न तु माषाणामिति प्रतीतिरिति भवत्ययं वृत्तावेकार्थतानियमः। एवं प्रस्थादिरपि। घटादयस्तु नैवम्। घटदातेत्युक्ते तु घटानां दातेत्यर्थस्यापि प्रतीयमानत्वात्। अतएव च प्रत्युदाहरति—घटं घटमिति। घटादयो हि जातिशब्दा नैकार्था भवन्तिस जातियोगस्यैकानेकसाधारणत्वात्, किं त्वभेदैकत्वसङ्ख्यामुपाददते। एतच्च सर्वं जयादित्यमतानुसारेणोक्तम्। वामनमते जातिशब्देभ्योऽपि बवत्येव। तथा च `जश्शसो 'रिति सूत्रे तेनोक्तम्,—जसा सहचरितस्य शसो ग्रहणादिह न भवति—`कुण्डशो ददाति वनशः प्रविशती'ति, तस्यायमाशयः—जातिशब्दोऽपि यद्यर्थप्रकरणादिना वृत्तावेकार्थो भवति, तदा भवत्येव ततोऽपि शसिति। अथ कथम् `एकैकशः पितृसंयुक्ता'निति द्विर्वचनशसोः सह प्रयोद इति चेत्। `छन्दोवदृषयः कुर्वन्ती'ति हरदत्तः। अतएव `सुपः'इति सूत्रे `एकैकश'इति प्राचो ग्रन्थः प्रामादिक'इत्यवोचामेति मनोरमायां स्थितम्। वस्तुतस्तु एकैकमेव एकैकशः। स्वार्थे शस्, न तु वीप्सायाम्, `एकां कपिलामेकैकशः सहरुआकृत्वो दत्त्वे'ति भाष्यादिति `तान्येकवचने'त्यादिसूत्रे वक्ष्यामः। द्वौ ददातीति। कथं तर्हि—`अव्रतानाममन्त्राणां जातिमात्रोपजीविनाम्। सहरुआशः समेतानां परिषत्तवं न विद्यते'इति। न ह्रत्र वीप्सास्ति, नापि कारकत्वमिति चेत्। अत्राहुः सहरुआं सहरुआं ये समेतास्तेषामपि परिषत्त्वं नेत्यर्थः। तथा च समवायक्रियां प्रति कर्तृत्वं, वीप्सा चस्त्येवेति। एतेन `एकश एकवचनादिसंज्ञानि स्यु'रिति व्याख्यातम्। एकशब्दार्थस्याऽस्तिक्रियां प्रति कर्तृत्वात्। कृष्णतः प्रतीति। `प्रतिः प्रतिनिधिप्रतिदानयो'रिति कर्मप्रवचनीयसंज्ञायां `प्रतिनिधिप्रतिदाने च यस्मा'दिति पञ्चमी।\र्\नाद्यादिभ्य उपसङ्ख्यानम्। आद्यादिभ्य इति। `स्यादित उदात्तमद्र्धह्यस्व'मित्येतदत्र लिङ्गम्।

Satishji's सूत्र-सूचिः

TBD.