TBD.
यत्प्रत्यये परतः पादस्य पदित्ययम् आदेशो भवत्यतदर्थे। पादौ विध्यन्ति पद्याः शर्कराः। पद्याः कण्टकाः। अतदर्थे इति किम्? पादार्थम् उदकं पाद्यम्। पद्भाव इके चरतावुपसङ्ख्यानम्। पादभ्यां चरति पदिकः। पर्पादिभ्यः ष्ठन् 4-4-10 इति पादशब्दात् ष्ठन् प्रत्ययः। शरीरावयववचनस्य पादशब्दस्य ग्रहणम् इह इष्यत्, तेन पणपादमाषशतद् यत् 5-1-34 इत्यत्र पदादेशो न भवति। द्विपाद्यम्। त्रिपाद्यम्।
TBD.
–
976 पद्यत्य। पद–यति–अतदर्थे इति च्छेदः। पद्या इति। विध्यत्यधनुषेति यत्प्रत्ययः। पाद्यमिति। `पादार्घाभ्यां चे'ति तादर्थ्ये यत्प्रत्ययः। \र्\निके चरताविति। चरत्यर्थे विहितस्य ष्ठनो य इकादेशः, तस्मिन्परे पादस्य पत्स्यादित्युपसङ्ख्यानमित्यर्थः।
832 पद्याइति। `विध्यत्यधनुषे'ति यत्। पाद्यमिति। `पादार्घाभ्यां चे'ति यत्। पूर्वसूत्रे आज्यात्यादिषु प्राण्यङ्गस्यैव करणत्वसंभवादिहापि तद्वचन एव पादशब्दो गृह्रते, न परिमाणवचनः। तेन `द्वाभ्यां पादाभ्यां क्रीतं द्विपाद्यं, त्रिपाद्य'मित्यत्र `पणपादमाषे'ति यति पदादेशो न भवति। एतच्च वृत्तिहरदत्तग्रन्थयोः स्पष्टम्।
TBD.