Table of Contents

<<6-3-51 —- 6-3-53>>

6-3-52 पादस्य पदाऽज्यातिगौपहतेसु

प्रथमावृत्तिः

TBD.

काशिका

पादस्य पद इत्ययम् आदेशो भवति आजि आति ग उपहत इत्येतेषु उत्तरपदेषु। पादाभ्यम् अजति इति पदाजिः। पादाभ्याम् अतति इति पदातिः। अज्यतिभ्यां, पादे च इत्यौणादिकः इण् प्रत्ययः। तत्र अजेर् वीभवो न भवति अत एव निपातनात्। पादाभ्यां गच्छति इति पदगः। पादेन उपहतः पदोपहतः। पादशब्दो वृषादित्वादाद्युदात्तः, तस्य स्थाने पदादेशः उपदेशे एव अन्तोदात्तो निपात्यते, तेन पदोपहतः इति तृतीया कर्मणि 6-2-48 इति पूर्वपदप्रकृतिस्वरत्वेन अन्तोदात्तत्वं भवति। पदाजिः, पदातिः, पदग इत्येतेषु कृत्स्वरेण समासस्य एव अन्तोदात्तत्वम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

975 पादस्य पद। `पदे'ति लुप्तप्रथमाकं पृथक्पदम्। एष्विति। आजि, आति, ग, उपहत- इत्येतेष्वित्यर्थः। अदन्त इति। उत्तरसूत्रे पदिति हलन्तस्य ग्रहणादितिभावः। अजतीति। `अज गतिक्षेपणयोः'। पदातिरिति। पादाभ्यामततीति विग्रहः। `अत गतौ' अज्यतिभ्यामिति। पादे उपपदे अजधातोरतधातोश्च इण्स्यादिति तदर्थः। `अजी'त्यस्य `अजेव्र्यघञपो'रिति वीभावमाशङ्क्याह–अजेव्र्यभावो निपातनादिति। आजीति निर्देशादित्यर्थः। पदग इति। पादाभ्यां गच्छतीत्यर्थः। `गमश्च', `अन्तात्यन्ताध्वदूरपारसर्वानन्तेषु डः' इति सूत्रस्थेन `अन्येभ्योऽपि दृश्यते' इति वार्तिकेन गमधातोर्ङः। तदन्ते गशब्दे परे पादस्यादन्तः पदादेशः। दकारान्तादेशे तु `पद्ग' इति स्यात्। पदोपहत इति। पादाभ्यामुपहत इति विग्रहः। अत्रापि दकारान्तादेशे `पदुपहत' इति स्यात्।

तत्त्वबोधिनी

831 पादस्य पद। उत्तरसूत्रे पद्ग्रहणात्पदेत्ययमदन्तः, सौत्रो विभक्तिलुक्। तदाह- - अदन्त आदेश इति। तेन पदगः इत्यादि सिद्धम्।

Satishji's सूत्र-सूचिः

TBD.