Table of Contents

<<5-1-33 —- 5-1-35>>

5-1-34 पणपादमाषशताद् यत्

प्रथमावृत्तिः

TBD.

काशिका

अध्यर्धपूर्वाद् द्विगोः इत्येव। अध्यर्धपूर्वाद् द्विगोश्च पणपादमाषशतशब्दान्तातार्हीयेष्वर्थेषु यत् प्रत्ययो भवति। अव्यर्धपण्यम्। द्विपण्यम्। त्रिपण्यम्। पाद अध्यर्धपाद्यम्। द्विपाद्यम्। त्रिपाद्यम्। पद्भावो न भवति पद् यत्यतदर्थे 6-3-53 इति। प्राण्यङ्गस्य स इष्यते। इदं तु परिमाणम्। माष अध्यर्धमाष्यम्। द्विमास्यम्। त्रिमास्यम्। शत अध्यर्धशत्यम्। द्विशत्यम्। त्रिशत्यम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1676 प्राण्यङ्गार्थस्येति। व्याख्यानादिति भावः। इह सूत्रे पणमाषसाहचर्यात्पादशब्दोऽपि परिमाणविशेषवाची गृह्रते।

तत्त्वबोधिनी

1295 प्राण्यङ्गार्थस्यैवेति। अयं भावः—`पादस्य पदाज्यातिदोपहतेषु'इत्यत्र प्राण्यङ्गस्यैव हि पादस्य ग्रहणं , तस्यै वाज्यातिभिर्गतिवचनैः संबन्धसंभवात्। तथा च `पद्यती'त्यादावपि तस्यैवानुवृत्तिः। इह तु पणमाषाभ्यां साहचर्यात्परिमाणवाचिनो ग्रहणमिति।

Satishji's सूत्र-सूचिः

TBD.