Table of Contents

<<6-3-50 —- 6-3-52>>

6-3-51 वा शोकष्यञ्रोगेषु

प्रथमावृत्तिः

TBD.

काशिका

शोक स्यञ् रोग इत्येतेषु परतः हृदयस्य वा हृदादेशो भवति। हृच्छोकः, हृदयशोकः। ष्यञ् सौहार्द्यम्, सौहृदयम्। ब्राह्मणादित्वात् ष्यञ्। हृदादेशपक्षे हृद्भगसिन्ध्वन्ते पूर्वपदस्य च 7-3-19 इत्युभयपदवृद्धिः। रोगे हृद्रोगः, हृदयरोगः। हृदयशब्देन समानार्थो हृच्छब्दः प्रकृत्यन्तरम् अस्ति, तेन एव सिद्धे विकल्पविधानं प्रपञ्चार्थम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

974 वा शोक। सौहाद्र्यमिति। ब्राआहृणादित्वाद्भावे ष्यञि `ह्मद्भगसिन्द्वन्ते' इत्युभयपदवृद्धिः। सौह्मदय्यमिति। भावे ष्यञि ह्मच्छब्दत्वाऽभावादादिवृद्धौ `यस्येति चे'ति लोपे रूपमिति भावः।

तत्त्वबोधिनी

830 सौहार्यमिति। ब्राआहृणादित्वात्ष्यञ्, ह्मद्भगसिन्ध्वन्ते इत्युबयपदवृद्धिः।

Satishji's सूत्र-सूचिः

TBD.