Table of Contents

<<6-3-49 —- 6-3-51>>

6-3-50 हृदयस्य हृल् लेखयदण्लासेषु

प्रथमावृत्तिः

TBD.

काशिका

हृदयस्य हृतित्ययम् आदेशो भवति लेख यतण् लास इत्येतेषु परतः। हृदयं लिखति इति हृल्लेखः। यत् हृदयस्य प्रियम् हृद्यम्। अण् हृदयस्य इदं हार्दम्। लास हृदयस्य लासः हृल्लासः। लेख इति अणन्तस्य ग्रहणम् इष्यते। घञि तु हृदयस्य लेखो हृदयलेखः। एतदेव लेखग्रहणं ज्ञापकम्, उत्तरपदाधिकारे प्रत्ययग्रहणे तदन्तग्रहणस्य।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

973 ह्मदयस्य। लेख, यत्, अम्, लास-एषु परेषु ह्मदयस्य ह्मदादेश इत्यर्थः। ह्मदयं लिखतीति ह्मल्लेखः। `कर्मण्यण्'। ह्मद्यमिति। `ह्मदयस्य प्रियः' इति यत्प्रत्ययः। हार्दमिति। `तस्येद'मित्यण्, ह्मदादेशः। हल्लास इति। घञन्तोऽयमिति भावः। लेखेत्यणन्तस्य ग्रहणमिति। अण्प्रत्ययसाहचर्यादिति प्राञ्चः। व्याक्यानादिति तत्त्वम्। तर्हि लेखग्रहणमेव व्यर्थम्, अमैवे सिद्धेरित्यत आह–ज्ञापकमिति।

घरूपकल्पब्ग्रहणे तदन्तविध्यभावः।

तत्त्वबोधिनी

829 अणन्तस्य ग्रहणमिति। अण्प्रत्ययसाहचर्याल्लेखशब्दोऽणन्त एव निर्दिष्ट इति भावः। नन्वेवं लेखग्रहणमेव व्यर्थं स्यादण्ग्रहणेनैव सिद्धेरत आह— ज्ञापकमिति। अत एव घरूपकल्पेषु तदन्तग्रहणं नेति व्याख्यातम्।

Satishji's सूत्र-सूचिः

TBD.