TBD.
कृतवृद्धावुत्तरपदे देवताद्वन्द्वे अग्नेः इकारादेशो भवति। आग्निवारुणीमनड्वहीमालभेत। आग्निमारुतं कर्म क्रियते। अग्नीवरुणौ देवते अस्य, अग्नीअरुतौ देवते अस्य इति तद्धितः। तत्र देवताद्वन्द्वे च 7-3-21 इत्युभयपदवृद्धौ कृतायाम् आनङ्, ईत्वं च बाधितुम् इकारः क्रियते। वृद्धौ इति किम्? आग्रेन्द्रः। नेन्द्रस्य परस्य 7-3-24 इत्युत्तरपदवृद्धिः प्रतिषिध्यते। इद्वृद्धौ विष्णोः प्रतिषेधो वक्तव्यः। आग्नावैष्णवं चरुं निर्वपेत्।
TBD.
–
915 आगेन्द्र इति। अग्निश्च इन्द्रश्च अग्नेन्द्रौ। `देवताद्वन्द्वे चे'त्यानङ्। आद्गुणः। अग्नेन्द्रौ देवते अस्येत्याग्नेन्द्रः। `साऽस्य देवते'त्यण्। आदिवृद्धिः। अत्रेन्द्रशब्दस्योत्तरपदस्य वृद्धिमत्त्वाऽभावात्। `इद्वृद्धौ' इति नेति भावः। `देवताद्वन्द्वे चे'त्युभयपदवृद्धिमाशङ्क्याह–नेन्द्रस्येति।
आग्नावैष्णवमिति। अग्नि ष्च विष्णुश्च -अग्नाविष्णू। `देवताद्वन्द्वे चे'त्यानङ्। अगनाविष्णू देवते अस्येत्यर्थे `साऽस्य देवते'त्यण्। आग्नावैष्णवं हविः। `देवताद्वन्द्वे चे'त्युभयपदवृद्धिः। इत्त्वाऽभावादान व।
791 इद्वृद्धौ। तकार उच्चारणार्थः। इकारस्येकारविधानं तु बाधकबाधनार्थम्। वृद्धिशब्देनाऽत्र वृद्धिमद्गृह्रते, वृद्धिमात्रस्योत्तरपदस्याऽसंभवात्। अतो व्याचष्टे—वृद्धिमत्युत्तरपद इति। आनङमीत्वं च बाधित्वेति। यद्यपि वृद्धेः प्रागेव आनङीत्वयोरन्तरङ्गत्वात्प्रवृत्तिरस्ति, तथापि `परिह्मत्यापवादविषयमत्सुर्गोऽभिनिविशते, इति न्यायादानङीत्वे न भवत इति भावः। आग्नावेष्णवमिति। इत्वाऽभावादानङेव भवति।
TBD.