Table of Contents

<<6-3-26 —- 6-3-28>>

6-3-27 ईदग्नेः सोमवरुणयोः

प्रथमावृत्तिः

TBD.

काशिका

सोम वरुण इत्येतयोः देवताद्वन्द्वे अग्नेः ईकारादेशो भवति। अग्नीषोमौ। अग्नीवरुणौ। अग्नेः स्तुत्स्तोमसोमाः 8-3-82 इति षत्वम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

913 ईदग्नेः। इत्येवेति। `देवताद्वन्द्वे' इत्यनुवर्तत एवेत्यर्थः। सोमशब्दे वरुणशब्दे च उत्तरपदे परे अग्नेरीदादेशः स्याद्देवताद्वन्द्वे इत्यर्थः। आनङोऽपवादः।

तत्त्वबोधिनी

789 ईदग्नेः। आनङोऽपवादोऽयम्। देवताद्वन्द्व इत्येवेति। इदं च वृत्तिगन्थे स्थितम्। ज्यतिर्लतयोरदेवताद्वन्द्वेऽपि `अग्नीषोमौप्रणेष्यामि'इत्या\उfffदालायनप्रयोगस्त्वार्षत्वात्साधुः। यद्वा मास्तु तदनुवृत्तिः, अद्निसोमौ माणवकावित्यत्र `अभिव्यक्तपदार्था ये स्वतन्त्रा लोकविश्रुताः'इति न्यायेनाऽदोषत्वात्।

Satishji's सूत्र-सूचिः

TBD.