TBD.
प्राचां देशे नगरान्ते ऽङ्गे पूर्वपदस्य उत्तरपदस्य च अचामादेरचः वृद्धिर् भवति तद्धिते ञिति, णिति, किति च परतः। सुह्मनगरे भवः सौह्मनागरः। पौण्ड्रनागरः। प्राचाम् इति किम्? मद्रनगरम् उदक्षु, तत्र भवः माद्रनगरः।
TBD.
–
1410 प्राचां नगरान्ते। अङ्गस्येत्यधिकृतं `नगरान्ते' इति सप्तम्यनुरोधेन सप्तम्या विपरिणम्यते। उत्तरपदस्येत्यधिकृतम्। `ह्मद्भगसिन्ध्वन्ते' इति सूत्रात्पूर्वपदस्येत्यनुवर्तते। तदयमर्थः। प्राचां यन्नगरं तदन्ते अङ्गे पूर्वपदस्योत्तरपदस्य च अचामादेरचो वृद्धिः स्याञ् ञिति णिति किति च तद्धिते इति। सुहृनगरमिति पुण्ड्रनगरमिति च प्राग्देशस्य पूर्वान्तावधिः। मद्रनगरमुदक्ष्विति। उदग्देशे मद्रनगरं नाम किञ्चिन्नगरमस्तीत्यर्थः।
1107 प्राचां नगरान्ते। सप्तमीनिर्देशात् `अङ्गस्ये'त्यधिकृतमपि सप्तम्यन्तेन विपरिणम्यते। तदाह—नगरान्तेऽङ्गे इति।
TBD.