Table of Contents

<<6-3-25 —- 6-3-27>>

6-3-26 देवताद्वन्द्वे च

प्रथमावृत्तिः

TBD.

काशिका

देवतावाचिनां यो द्वन्द्वः तत्र उत्तरपदे पूर्वपदस्य आनङादेशो भवति। इन्द्रावरुणौ। इन्द्रासोमौ। इन्द्राबृहस्पती। द्वन्द्वे इति वर्तमाने पुनर् द्वन्द्वग्रहणं प्रसिद्धसहाचर्यार्थम्। अत्यन्तसहचरिते लोकविज्ञाते द्वन्द्वम् इत्येतत् निपात्यते। तत्र ये लोके प्रसिद्धसाहचर्या वेदे च ये सहवापनिर्दिष्टास् तेषाम् इह ग्रहणं भवति। तेन ब्रहमप्रजापती, शिववैश्रवणौ इत्येवम् आदौ न भवति। उभ्यत्र वायोः प्रतिषेधो वक्तव्यः। अग्निवायू। वाय्वग्नी।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

912 देवताद्वन्द्वे च। मित्रावरुणाविति। इह ऋदन्तत्वाऽभावात्पूर्वेणाऽप्राप्ते विधिरयम्। सत्यानङः प्रतिषेधो वक्तव्य इत्यर्थः। ननु पूर्वसूत्राद्द्वन्द्वग्रहणेऽनुवर्तमाने पुनद्र्वन्द्वग्रहणं व्यर्थमित्यत आह-पुनरिति। निर्वापादौ प्रसिद्धसाहित्यकदेवतावाचकशब्दग्रहणार्थः। तेनेति। प्रसिद्धसाहचर्यग्रहणेनेत्यर्थः। एतदिति। एतत्=ब्राहृप्रजापतियुगलं हविर्भागित्वेन न वेदे प्रसिद्धमित्यर्थः। नापि लोके इति। प्रौढिवादमात्रमेवेदम्, `वेदे ये सहनिर्वापनिर्दिष्टाः' इत्येव भाष्ये दर्शनात्, लोकप्रसिद्धसाहचर्यग्रहणे पार्वतीपरमे\उfffदारावित्यादावतिप्रसङ्गाच्च।

तत्त्वबोधिनी

788 देवता। अनृकारान्तार्थमविद्यायोनिसम्बन्धार्थं च वचनम्।

Satishji's सूत्र-सूचिः

TBD.