Table of Contents

<<8-3-81 —- 8-3-83>>

8-3-82 अग्नेः स्तुत्स्तोमसोमाः

प्रथमावृत्तिः

TBD.

काशिका

अग्नेः उत्तरस्य स्तुत् स्तोम सोम इत्येतेषां सकारस्य मूर्धन्यादेशो भवति समासे। अग्निष्टुत्। अग्निष्टोमः। अग्नीषोमः। अग्नेर् दीघात् सोमस्य इष्यते। तेन इह न भवति, अग्निसोमौ माणवकौ। तथा च ज्योतिरग्निः, सोमः लताविशेषः, अग्निसोमौ तिष्ठतः। समासे इत्येव, अग्नेः स्तोमः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

914 अग्ने स्तुत्। स्तुत्-स्तोम-सोम इति द्वन्द्वात् षष्ठ\उfffद्र्थे प्रथमा। `सहेः साडः सः' इत्यतः `स' इति षष्ठ\उfffदेकवचनान्तमनुवर्तते। अग्नेरिति पञ्चमी। `समासेऽङ्गुलेः' इत्यतः समासे इत्यनुवर्तते। तदाह–अग्नेः परेषामिति। षः स्यादिति। `अपदान्तस्य मूर्धन्यः' इत्यनुवृत्तेरिति भावः। `सात्पदाद्योः' इति षत्वनिषेधापवादोऽयम्। अग्निष्टुदिति। क्रतुविशेषोऽयम्। अग्निष्टोम इति। स्तोत्रविशेषस्य, संस्थाविशेषस्य च नाम। अग्नीषोमाविति। अग्निश्च सोमश्चेति विग्रहः। ईत्त्वषत्वे। अग्नीवरुणाविति। अग्निश्च वरुणश्चेति विग्रहः। ईत्त्वम्। देवताद्वन्द्वे किम् ?। अग्निर्नाम कश्चित्, सोमो नाम कश्चित्। अग्निसोमौ अदेवताद्वन्द्वत्वादीत्त्वं न। अत एव च न षत्वम्, `अग्नेर्दीर्घात् सोमस्य इष्यते'इति वार्तिकात्। इद्वृद्धौ। `अग्ने'रिति `देवताद्वन्द्वे' इति चानुवर्तते। वृद्धिशब्देन वृद्धिमल्लक्ष्यते, देवताद्वन्द्वे केवलवृद्धिरूपोत्तरपदाऽसम्भवात्। तदाह–वृद्धिमतीति। इदिति तकार उच्चारणार्थः। प्रयोजनाऽभावान्नेत्संज्ञा। नापि तपरकरणं, विधीयमानत्वादेव सवर्माऽग्राहकत्वात्। अग्नामरुताविति।अग्निश्च मरुच्चेति विग्रहः। `देवताद्वन्द्वे चे'त्यानङ्। आग्निमारुतं कर्मेति। `साऽस्य देवते'त्यण्। तद्धितान्तप्रातिपदिकावयवत्वात्सुपो लुक्। अग्नोवरुणाविति। `ईदग्ने'इतीत्त्वम्। आग्निवारुणमिति। `साऽस्य देवते'त्यण्। ननु `तद्धितेष्वचामादे'रित्यादेरचो वृद्धिविधानात्कथमुत्तरपदस्याऽऽदिवृद्धिरित्यत आह– देवताद्वन्द्वेचेत्युभयपदवृद्धिरिति। नन्वग्नोरिकारस्य इकारविधिव्र्यर्थ इत्यत आह- -आनङमीत्त्वं च बाधित्वेति। `आग्निमारुत'मित्यत्रानङ्, `आग्निवारुण'मित्यत्र ईत्त्वस्य च बाधनार्थग्नोरिकारस्य पुनरिकारविधानमित्यर्थः। ननु `समर्थानां प्रथमाद्रे'त्यत्र परिनिष्ठितात्तद्धितोत्पत्तिरिति वक्ष्यते। तथा च अग्नामरुतौ देवते अस्येति, अग्नीवरणौ देवते अस्येति च विग्रहे अग्नामरुच्छब्दादग्नीवरुणशब्दाच्च आनङीत्त्वाभ्यां परिनिष्ठिताद्देवताद्वन्द्वात् `साऽस्य देवते'त्यण्तद्धित उत्पद्यते। ततस्तन्निमित्तकोभयपदवृद्धिः। ततः `इद्वृद्धौ' इत्यस्य प्रवृत्तिरिति क्रमः। ततश्च तद्धितोत्पत्तेः प्रागेव प्रवृत्तयोरानङीत्त्वयोः कथम् `इद्वृद्धौ' इत्यनेन बाधः ?, युगपत्प्रवृत्तावेव बाध्यवाधकभावाभ्युपगमात्। उक्तं च भाष्ये–`भुक्तवन्तं प्रति मा भुक्था इत्युक्ते किं तेन कृतं स्या'दिति। अत आह–अलौकिके [विग्रह]वाक्ये इति। अग्नि मरुत् औ देवते अस्येति, अग्नि वरुण औ देवते अस्येति च तद्धिताऽलौकिकविग्रहवाक्ये आनङीत्त्वे प्रवर्तमाने बाधित्वा इद्विधिः प्रवर्तत इत्यर्थः। यद्यपि तदानीमुत्तरपदस्य वृद्धिमत्त्वं नास्ति,तद्धिताऽभावात् , तथाप्युत्तरपदस्य भाव्येव वृद्धिमत्त्वमिह विवक्षितमिति भावः।

तत्त्वबोधिनी

790 अग्नेः। `सात्पदाद्यो'रिति निषेधेऽयमारम्भः। अग्निष्टुदिति। अग्निः स्तूयतेऽस्मिन् स कतुविशेषः। सम्पदादित्वादधिकरणे क्विप्। अग्निष्टोम इति। अग्नीनां स्तोमोऽग्निष्टोमः। सोमयागस्य संस्थास्वाद्या संस्थोच्यते।

Satishji's सूत्र-सूचिः

TBD.