TBD.
स्वसृ पति इत्येतयोः उत्तरपदयोः ऋकारान्तेभ्यः विद्यायोनिसम्बन्धवाचिभ्यः विभाषा ऽलुग् भवति। मातुःष्वसा, मातुःस्वसा, मातृष्वसा। पितुःष्वसा, पितुःस्वसा, पितृष्वसा। यदा लुक् तदा मातृपितृभ्यां स्वसा 8-3-84 इति नित्यं षत्वम्। यदा तु अलुक् तदा मातुः पितुर्भ्यम् अन्यतरस्याम् 8-3-85 इति विकल्पेन षत्वम्। दुहितुःपतिः, दुहितृपतिः। ननान्दुःपितिः, ननान्दृपतिः।
TBD.
–
967 विभाषा स्वसृपत्योः। ऋदन्तादिति। `विद्यासंबन्धयोनिसंबन्धान्यतरवाचिन' इति शेषः। ततश्च `भोक्तृस्वसे'त्यत्र नातिव्याप्तिः।
–
TBD.