TBD.
मातुर् पितुरित्येताभ्याम् उत्तरस्य स्वसृशब्दस्य अन्यतरस्यां मूर्धन्यादेशो भवति समासे। मातुःष्वसा, मातुःस्वसा। पितुःष्वसा, पितुःस्वसा। मातुः पितुः इति रेफान्तयोरेतद् ग्रहणम्। एकदेशविकृतस्य अनन्यत्वाद् विसर्जनीयान्ता सकारान्तात् च षत्वं भवति। समासे इत्येव, वाक्ये मा भूत्। मातुः स्वसा इत्येव नित्यं भवति।
TBD.
–
968 पूर्वण नित्ये प्राप्ते विकल्पोऽयम्। अलुक्पक्षे विशेषमाह– मातुःपितुभ्र्यामन्यतरस्याम्। `मातृपितृभ्यामन्यतरस्याम्। `मातृपितृभ्यां स्वसे'ति पूर्वसूत्रात्स्वसेत्यनुवर्तते। षष्ठ\उfffद्र्थे प्रतमा। `सहेः साडः सः' इति सूत्रात्स इति षष्ट\उfffद्न्तं पदमनुवर्तते। `अपदान्तस्य मूर्धन्यः' इत्यधिकृतम्। तदाह–आभ्यामिति। `मातुः' `पितु'रिति षष्ठ\उfffद्न्ताभ्यामित्यर्थः। समासे इति। `समासेऽङ्गुलेः सङ्गः' इत्यतस्तदनुवृत्तेरिति भावः। `मातुःष्वसा'`पितुःष्वसे'ति अलुकि षत्वे रूपम्। `मातुःस्वसा'`पितुःस्वसे'त्यलुकि षत्वाभावे रूपम्। लुक्पक्षे त्विति। `विशेषो वक्ष्यते' इति शेषः।
–
TBD.