Table of Contents

<<6-3-22 —- 6-3-24>>

6-3-23 ऋतो विद्यायोनिसम्बन्धेभ्यः

प्रथमावृत्तिः

TBD.

काशिका

ऋकारान्तेभ्यो विद्यसम्बन्धवचिभ्यो योनिसम्बन्धवाचिभ्यश्च उत्तरस्याः षष्ठ्या अलुग् भवति। होतुरन्तेवसी। होतुःपुत्रः। पितुरन्तेवासी। पितुःपुत्रः। ऋतः इति किम्? आचर्यपुत्रः। मातुलपुत्रः। विद्यायोनिसम्बन्धेभ्यस् तत्पूर्वोत्तरपदग्रहणम्। विद्यायोनिसम्बन्धवाचिनि एव उत्तरपदे यथा स्यात्, अन्यत्र मा भूत्। होतृधनम्। पितृधनम् होतृगृहम्। पितृगृहम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

966 ऋतो विद्यमा। एकत्वे बहुवचनम्। ऋदन्तादिति। अलुक् स्यादिति। `उत्तरपदे परत'इति शेषः।विद्यासंबन्धवाचिनमुदाहरति– होतुरन्तेवासीति। ऋग्वेदविहितकर्मविशेषकर्ता होता। अतो होतृशब्दो विद्यासंबन्धप्रवृत्तिनिमित्तक इति भावः। होतुः पुत्र इति। विद्यासंबन्धवाचिन उदाहरणान्तरमिदम्। अथ योनिसंबन्धवाचिनमुदाहरति–पितुरन्तेवासीति। पितुःपुत्र इति च। ननु `होतृधनं' पितृधन`मित्यत्राऽप्यलुक् स्यादित्यत आह– विद्यायोनिसंबन्धेभ्यस्तत्पूर्वोत्तरपदग्रहणमिति। `विद्यायोनिसंबन्धेभ्यः' इत्यत्र विद्यासंबन्धयोनिसंबन्धवाचिनोः पूर्वोत्तरपदयोग्र्रहणमित्यर्थः। पूर्वोत्तरपदयोरुभयोरपि विद्यासम्बन्धयोनिसंबन्ध्यान्यतरवाचित्वं विवक्षितमिति भावः। `होतृधनं'`पितृधन'मित्यत्र उत्तरपदस्य विद्यासंबन्धयोनिसंबन्धान्यतरवाचित्वाऽभावान्न षष्ठ\उfffदा अलुगिति भावः। अन्यतरसंबन्धवाचित्वस्य विवक्षितत्वादेव `होतुःपुत्र' इत्यादि सिद्धम्।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.