Table of Contents

<<6-3-19 —- 6-3-21>>

6-3-20 स्थे च भाषायाम्

प्रथमावृत्तिः

TBD.

काशिका

स्थे च उत्तरपदे भाषायाम् सप्तम्या अलुक् न भवति। समस्थः। विषमस्थः। कूटस्थः। पर्वतस्थः। भाषायाम् इति किम्? कृणोम्यारेष्ठः। पूर्वपदात् 8-3-106 इति षत्वम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

963 स्थे च भाषायाम्। `अनन्तरस्ये'ति न्यायात् `तत्पुरुषे कृती'त्यस्यैवायं निषेधः। अत एव `अनेकमन्यपदार्थे' इति सूत्रभाष्ये `सप्तम्युपमानपूर्वपदस्ये'ति वार्तिकव्याख्यावसरे कण्ठेस्थः कालो यस्येति विग्रहे कण्ठेस्थशब्दस्य समासत्वमभ्युपगम्य उत्तरपदलोप उपन्यस्तः सङ्गच्छते। यदा तु `अमूर्धंमस्तका'दित्यस्याप्ययं निषेधः स्यात्तर्हि तदसङ्गतिः स्यात्, लुक्प्रसङ्गात्।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.