Table of Contents

<<6-3-20 —- 6-3-22>>

6-3-21 षष्ठ्या आक्रोशे

प्रथमावृत्तिः

TBD.

काशिका

आक्रोशे गम्यमाने उत्तरपदे षष्ठ्या अलुग् भवति। चौरस्यकुलम्। वृषलस्यकुलम्। आक्रोशे इति किम्? ब्राह्मनकुलम्। षष्थीप्रकरने वाग्दिक्पश्यद्भ्यो युक्तिदण्डहरेषु यथासङ्ख्यम् अलुग् वक्तव्यः। वाचोयुक्तिः। दिशोदण्डः। पश्यतोहरः। आमुष्यायणामुष्यपुत्रिकामुष्यकुलिकेति च अलुग् वक्तव्यः। अमुस्यापत्यम् आमुस्यायणः। नडादित्वात् फक्। अमुष्य पुत्रस्य भावः आमुस्यपुत्रिका। मनोज्ञादित्वद् वुञ्। तथा आमुस्यकुलिका इति। देवानाम्प्रिय इत्यत्र च षष्ठ्या अलुग् वक्तव्यः। देवानम् प्रियः। शेपपुच्छलङ्कूलेषु शुनः संज्ञायां अलुग् वक्तव्यः। शुनःशेपः। शुनःपुच्छः। शुनोलाङ्गूलः। दिवश्च दासे षष्ठ्या अलुग् वक्तव्यः। दिवोदासाय गायति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

964 षष्ठ\उfffदा आक्रोशे। `अलुगुत्तरपदे' इति शेषः। आक्रोशो-निन्दा।

युक्ति, दण्ड, हर एतेषु क्रमादुत्तरपदेषु परेष्वित्यर्थः। वाचोयुक्तिरिति। शब्दप्रयोग इत्यर्थः। दिशोदण्ड इति। अधिकरणस्य शेषत्वविवक्षायां षष्ठी। पश्यतोहर इति। पस्यन्तमनादृत्य हरतीत्यर्थः। `षष्ठी चानादरे' इति षष्ठी। \र्\नामुष्यायणेति। वार्तिकमिदम्। एते निपात्यन्ते। अमुष्येति। अमुष्याषत्यमित्यर्थे `नडादिभ्यः फगि'ति फकि आयन्नादेशे आदिवृद्धौ तद्धितान्तत्वात्प्रातिपदिकतया तदवयवत्वात्प्राप्तस्य सुब्लुको निषेधे नस्य णत्वे `आमुष्यायण' इति रूपमित्यर्थः। अमुष्य पुत्र इति विग्रहे षष्ठीसमासे षष्ठ\उfffदा अलुकि `अमुष्यपुत्र' शब्दः। अमुष्यपुत्रस्य भाव इत्यर्थे `द्वन्द्वमनोज्ञादिभ्यश्चे'ति वुञि अकादेशे पुत्रशब्दात्सुपो लुकि आदिवृद्धौ स्त्रीत्वाट्टापि `प्रत्ययस्था'दितीत्त्वे आमुष्यपुत्रिकाशब्द इत्यर्थः। एवमिति। अमुष्य कुलमिति षष्ठीसमासे षष्ठ\उfffदा अलुकि अमुष्यकुलशब्दाद्बुञादिः पूर्ववदित्यर्थः। वार्तिकमिदम्।मूर्खः-अज्ञः। `दिवु क्रीडायाम्'। देवाः-क्रीडासक्ता मूर्खाः, तेषां प्रियोष?प्रि मूर्ख एव, मूर्खप्रियस्यावश्यं मूर्खत्वादिति `अजेर्वी'त्यत्र कैयटः।

`भाष्यम् ष शुनश्शेप इति। शुनः शेप इव शेपो यस्येति विग्रहः। `मेढ्रो मेहनशेपसी'। शेफशब्दोऽप्यस्ति, `शेपाय स्वाहा' इति दर्शनात्। शुनःपुच्छ इति। शुनः पुच्छमिव पुच्छं यस्येति विग्रहः। एवं शुनोलाङ्गूल इत्यपि। ऋषिविशेषणां संज्ञा एताः।

कश्चिद्राजर्षिरयम्।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.