Table of Contents

<<6-3-18 —- 6-3-20>>

6-3-19 नैन्सिद्धबध्नातिषु च

प्रथमावृत्तिः

TBD.

काशिका

इन्नन्ते उत्तरपदे सिद्धशब्दे बध्नातौ च परतः सप्तम्याः अलुग् न भवति। स्थण्दिलवर्ती। सिद्ध साङ्काश्यसिद्धः। काम्पिल्यसिद्धः। बध्नाति चक्रबद्धः। चारबद्धः। सप्तमी इति योगविभागात् समासः। चक्रबन्धः इति केचिदुदाहरन्ति, तत् पचाद्यजन्तम् द्रष्टव्यम्। घञन्ते हि बन्धे च विभाषा 6-3-13 इत्युक्तम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

962 नेन्सिद्धबन्धानादिषु च। चक्रबद्ध इति। `साधनं कृते'ति क्तान्तेन सप्तम्यन्तस्य समासः।

तत्त्वबोधिनी

881 नेन्सिद्धब। चक्रबन्ध इति। तत्पुरुषे इत्यनुवृत्तेस्तत्पुरुष एवायं निषेधः। बहुव्रीहौ तु बन्धे च विभाषा इति विकल्प एव। युक्तिदण्डहरेषु। पश्यतोहर इति। पश्यन्तमनादृत्य हरतीत्यर्थः। षष्ठी चाऽनादरे इति षष्ठी। जनयन्ति देवपशुत्वादिति मनोरमा। अयं भावः– ब्राहृआज्ञानरहितत्वात्संसारिणो मूर्खाः। ते तु यागादिकर्माण्युनुतिष्ठन्तः पुरोडाशादिप्रदानद्वारा देवानाम्तयन्तं प्रीतिं जनयन्ति। बहृज्ञानिनस्तु न तथा, तेषां यागाद्यनुष्ठानाऽबावात्। अतो गवादिस्थानापन्नत्वान्मूर्खा एव देवपशव इति। सेपपुच्छेति। शुन इव शेपमस्य शुनःशेपः। यद्यपि शेपस्शब्दः सकारान्तः, गौर्लिङ्गं चिह्नशेपसोः इत्यमरप्रोगात्, तथापि शीङ्गो निपातनादौणादिके पप्रत्यये अकारान्तोऽप्यस्त्येव। तथा च मन्त्र यस्याकमुशन्तः प्रहराम शेपमिति। चिह्नशेफसोः इति पाटे तु शेफशब्दस्य सकारान्तत्वशङ्कैव नास्तीति बोध्यम्। शुनः पुच्छ इत्यादावपि बहुव्रीहिः। त्रयोऽप्यमी ऋषिविशेषाणां संज्ञाः। मातुः पितुभ्र्यामिति सूत्रे समासेऽङ्गुलेः सङ्गः इत्यतः समास इत्यनुवर्तितम्, तत्फलं दर्शयति– असमासे त्विति। वाक्ये वैकल्पिकमपि षत्वं नेत्यर्थः। \र्\नित्यलुक्समासः तत्त्वबोधिन्याम्।

Satishji's सूत्र-सूचिः

TBD.