Table of Contents

<<6-3-108 —- 6-3-110>>

6-3-109 पृषोदराऽदीनि यथोपदिष्टम्

प्रथमावृत्तिः

TBD.

काशिका

पृषोदरप्रकाराणि शब्दरूपाणि, येषु लोपागमवर्नविकाराः शास्त्रेण न विहिताः दृश्यन्ते च, तानि यथोपदिष्टानि साधूनि भवन्ति। यानि यानि यथोपदिष्टानि, शष्टैरुच्चारितानि प्रयुक्तानि, तानि तथा एव अनुगन्तव्यानि। पृषदुदरं यस्य पृषोदरम्। पृषदुद्वानं यस्य पृषोद्वानम्। अत्र तकारलोपो भवति। वारिवाहकः बलाहकः। पूर्वशब्दस्य बशब्द आदेशः, उत्तरपदादेश्च लत्वम्। जीवनस्य मूतः जीमूतः। वनशब्दस्य लोपः। शवानां शयनम् श्मशानम्। शवशब्दस्य श्मादेशः, शयनशब्दस्य अपि शानशब्द आदेशः। ऊर्ध्वं खमस्य इति उलूखलम्। ऊर्ध्वखशब्दयोः उलू खल इत्येतावादेशौ भवतः। पिशिताशः पिशाचः। पिशिताशशब्दयोर् यथायोगं पिशाचशब्दौ आदेशौ। ब्रुवन्तो ऽस्यां सीदन्ति इति बृसी। सदेरधिकरणे डट् प्रत्ययः। ब्रुवच्छब्दस्य चोपपदस्य बृशब्द आदेशो भवति। मह्यां रौति इति मयूरः। रौतेरचि टिलोपः। महीशब्दस्य मयूभावः। एवमन्ये ऽपि अश्वत्थकपित्थप्रभृतयो यथायोगम् अनुगन्तव्याः। दिक्शब्देभ्य उत्तरस्य तीरस्य तारभावो वा भवति। दक्षिणतीरम्, दक्षिणतारम्। उत्तरतीरम्, उत्तरतारम्। वाचो वादे डत्वं च लभावश्च उत्तरपदस्य इञि प्रत्यये भवति। वाचं वदति इति वाग्वादः। तस्यापत्यं वड्वालिः। षष उत्वं दतृदशधासूत्तरपदादेष्टुत्वं च भवति। षड् दन्ता अस्य षोडन्। षट् च दश च षोडश। धासु वा षष उत्वं भवत्युत्तरपदादेश्च ष्टुत्वम्। षोढा, षड्धा कुरु। बहुवचननिर्देशो नानाधिकरणवाचिनो धाशब्दस्य प्रतिपत्त्यर्थः। इह मा भूत्, षट् दधाति धयति वा षड्धा इति। दुरो दाशनाशदभध्येषूत्वं वक्तव्यम् उत्तरपदादेश्च ष्टुत्वम्। कुच्छ्रेण दाश्यते नाश्यते दभ्यते च यः स दूडाशः। दूणाशः। दूडभ्यः। दम्भेः खल्बनुनासिकलोपो निपातनात्। दुष्टं ध्यायति इति दूढ्यः। दुःशब्दोपपदस्य ध्यायतेः आतश्चोपसर्गे 6-1-136 इति कप्रत्ययः। स्वरो रोहतौ छन्दस्युत्वं वक्तव्यम्। जाय एहि सुवो रोहाव। पीवोपवसनादीनां च लोपो वक्तव्यः। पीवोपवसनानाम्। पयोपवसनानाम्। वर्णागमो वर्णविपर्ययश्च द्वौ चापरौ वर्णविकारनाशौ। धातोस्तदर्थातिशयेन योगस्तदुच्यते पञ्चविधं निरुक्तम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1019 पृषोदरादीनि। आदिशब्दो न प्रभृतिवाची, गणपाठे पृषोदरादिपाठस्याऽदर्शनाद्यथोपदिष्टपदस्य वैयथ्र्याच्च। किंतु प्रकारवाची। तदाह– पृषोदरप्रकाराणीति। प्रकारः-सादृश्यं, तच्च शास्त्रोक्तलोपागमादेशादिरहितत्वेन बोध्यम्। व्याकरणशास्त्राऽगृहीतानीति यावत्। उपपूर्वको दिशिरुच्चारणार्थः। भावे क्तः। उपदिष्टमुपदेशः–उच्चारणं, तदनतिक्रम्य यथोपदिष्टम्। पदार्थानतिवृत्तावव्ययीभावः। शिष्टैरित्यध्याहार्यम्। तथा च फलितमाह– शिष्टैर्यथोच्चारितानीति। शिष्टास्तु शब्दतत्त्वसाक्षात्कारवन्तो योगिन इति। भाष्यकौयटयोः स्पष्टम्। तलोप इति। षष्ठीसमासे सुब्लुकि तलोपे `आद्गुणः' इति भावः। पूर्वपदस्येति। `वारिवाहक' शब्दे वारिशब्दस्य पूर्वपदस्य बकारः सर्वादेशः। वाहकशब्द उत्तरपदं, तदादेर्वकारस्य लकारादेश इत्यर्थः। इति। हसधातोः पचाद्यचि अनुस्वारागमे `हंस' इति रूपमित्यर्थः। हनधातोरचि सगागमे `नश्चाऽपदान्तस्ये'त्यनुस्वार इत्यन्ये। सिंहो वर्णविपर्ययादिति। `हिसि हिंसाया'मित्यतः पचाद्यचि इदित्त्वान्नुम्। `नश्चे'त्यनुस्वारः। हकारस्य सकारः, सकारस्य हकारश्च। सिंह इति रूपमित्यर्थः। यद्यपि हंससिहंयोरुणादौ व्युत्पत्तिरुक्ता तथाप्युणादिसूत्राणां शाकटायनप्रणीतत्वेन शास्त्रान्तरत्वादिह व्युत्पादनं न दोष इत्याहुः। गूढोत्मा वर्णविकृतेरिति। गूढ आत्मा यस्येति बहुव्रीहावुत्तरपदादेराकारस्य उकारे आद्गुणे रूपमिति भावः। वर्णनाशात्पृषोदरमिति। पृषत्-उजरमित्यत्र तकारलोपे सति आद्गुणे पृषोदरमिति भवतीत्यर्थः।

वार्तिकम्। दुरित्यस्य दाश, नाश, दभ, ध्य–इत्येतेषु परेषु इत्वम्, उत्तरपदादेः ष्टुत्वं च वक्तव्यमित्यर्थऋ दूडाश इति। दुर्–दाश इति स्थिते रेफस्य उत्त्वे सवर्णदीर्घः। दाशेर्दकारस्य ष्टुत्वेन डकारः। दूणाश इति। दुर्-नाश इति स्थिते रेफस्य उत्व सवर्णदीर्घः। नाशेर्नकारस्य ष्टुत्वेन णत्वम्। दूडभ इति। दुर्-दभ इति स्थिते रेफस्य उत्वं, सवर्णदीर्घः। दभेर्दकारस्य ष्टुत्वेन डकारः। खल्त्रिभ्य इति। `दाश्रृ दाने' `णश अदर्शने' ण्यन्तः, `दभ हिंसाया'मिति त्रिभ्यो धातुभ्यः `ईषद्दुस्सुषु' इति खल्प्रत्यय इत्यर्थः। ननु क्ङित्परकत्वाऽभावात्कथमिह `अनिदिता'मिति नलोप इत्यत आह–दम्भेर्नलोपो निपात्यत इति। दूढ\उfffद् इति। दुर् ध्य इति स्थिते रेफस्य उत्वं सवर्णदीर्घः, धस्य ष्टुत्वेन ढत्वम्। आतश्चेति। `ध्यै चिन्तायाम्' `आतश्चोपसर्गे' इति कप्रत्यये आदेच उपदेशे' इति आत्त्वे `आतो लोप इटि चे'त्याल्लोपे ध्यशब्द इत्यर्थः। सदेरिति। सद्धातोरधिकरणेऽर्थे डटि ङित्त्वसामथ्र्यादस्यापि टेर्लोपे स इति रूपम्। ब्राउवत् स इति स्थिते उपपदसमासे सुब्लुकि ब्रावच्छब्दस्य `बृ' इत्यादेशे बृसशब्दात् `टिड्ढे'ति ङीपि बृसीति रूपमिति भावः। `दिक्छब्देभ्य' इत्यारभ्य एतदन्तः सन्दर्भः पृषोदरादीनीत्यस्यैव प्रपञ्चः। आकृतिगणो।ञयमिति। पृषोदरादिरित्यर्थः। तेन कर्तुकामः, कर्तुमना इत्यादिसङ्ग्रहः।

तत्त्वबोधिनी

860 पृषोदर। प्रकाराणीति। आदिशब्दो हि न व्यवस्थावचनः, यथोपदिष्टपदानर्थक्यादिति भावः। शिष्टैरिति। अध्याहारलभ्यमिदम्। `यथोपदिष्ट'मित्यत्र यथार्थेऽव्ययीभावः। उपदिशिश्चोच्चारणक्रियः। `यानि यानि शिष्टैरुप दिष्टानि'इत्यर्थः। एवं स्थिते फलितमाह–यथोच्चारितानि तथैवेति। समासयदविषयकमिदम्, उत्तरपदाधिकारात्। निरुक्तादिशास्त्रसिद्धानामसमासपदानाम् `उणादयो बहुल'मित्येव सिद्धेश्च। यद्यपि समासविषयकमेवेति नियमो न युज्यते, हंससिंहशब्दयोरपि प्राचां कारिकायामुदाह्मतत्वात्, तथापि तत्करिकायां यथाशब्दाध्याहरेण दृष्टान्तप्रदर्शनार्थं तयोरुपन्यासः कृतो न तु प्रकृतसूत्रोदाहरणत्वेनेति नियमोक्तिः सम्यगेवेत्याहुः। वर्णागमादिति। हन्तेः पचाद्यचि सगागमः। विपर्ययादिति। हिंसेस्तु पचाद्यचि हकारसकारयोः स्थानव्यत्ययः। वा। दिक्शब्देभ्य इति। वार्तिकमिदम्। `दुरो दाशनाशे'त्यप्येवम्। दाशनाशदभध्येषूत्वमुत्तरपदादेः ष्टुत्वं च। खल्त्रिभ्य इति। दाशनाशदभेति त्रयोऽपि `ईषद्दुःसुषु'इति खल्प्रत्ययान्ता इत्यर्थः। बृसीति। `मुनीनामासनं बृसो' आकृतिगणोऽयमिति। तेन`लुम्पेदवश्यमः कृत्ये तुंकाममनसोरपि। समो वा हितततयोर्मासस्य पचि युड्घञोः।' इत्यपि सङ्गृहीतम्। कृत्यान्ते उत्तरपदे अवश्यमः अन्तं पुमान्लुम्पेत्। अवश्यगन्तव्यः। अवश्यसेव्यः। तथा तुमः काममनसोः परतोऽ लम्पेत्। गन्तुकामः। गन्तुमनाः। समो हितततयोरन्तं वा लुम्पेत्। हितः संहितः। सततः संततः। युट् घञ्च, एतत्परो यः पच्धातुस्तस्मिन्परे मांसस्याऽन्तं लुम्पेत्। मांस्पचनम्। मांस्पाकः। इह संयोगान्तलोपोऽपि शिष्टोच्चारणान्नेतचि बोध्यम्।\त्

Satishji's सूत्र-सूचिः

TBD.