Table of Contents

<<6-2-149 —- 6-2-151>>

6-2-150 अनो भावकर्मवचनः

प्रथमावृत्तिः

TBD.

काशिका

अनप्रत्ययान्तम् उत्तरपदं भाववचनं कर्मवचनं च कारकात् परमन्तोदात्तं भवति। ओदनभोजनं सुखम्। पयःपानम् सुखम्। चन्दनप्रियङ्गुकालेपनं सुखम्। कर्मवचनः राजभोजनाः शालयः। राजच्छादनानि वसांसि। कर्मणि च येन संस्पर्शात् कर्तुः शरीरसुखम् 3-3-116 इत्ययं योगः उभयथा वर्ण्यते। कर्मण्युपपदे भावे ल्युड् भवति, कर्मण्यभिधेये ल्युड् भवति इति। तत्र पूर्वस्मिन् सूत्रार्थे भाववचनोदाहरणानि, उत्तरत्र कर्मवचनोदाहरणानि। अनः इति किं? हस्तहार्यमुदश्वित्। भावकर्मवचनः इति किम्? दन्तधावनम्। करणे ल्युट्। कारकातित्येव। निदर्शनम्। अवलेखनम्। सर्वेसु प्रत्युदाहरणेषु प्रकृतिस्वरो भवति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.