Table of Contents

<<6-2-150 —- 6-2-152>>

6-2-151 मन्क्तिन्व्याख्यानशयनाऽसनस्थानयाजकाऽदिक्रीताः

प्रथमावृत्तिः

TBD.

काशिका

मन्नन्तं क्तिन्नन्तं व्याख्यान शयन स्थान इत्येतानि याजकादयः क्रीतशब्दश्च उत्तरपदम् अनतोदात्तं भवति। मन् रथवर्त्म। शकटवर्त्म। क्तिन् पाणिनिकृतिः। आपिशलिकृतिः। व्याख्यान ऋगयनव्याख्यानम्। छन्दोव्याख्यानम्। शयन राजशयनम्। ब्राह्मणशयनम्। आसन राजासनम्। ब्राह्मणासनम्। स्थान गोस्थानम्। अश्वस्थानम्। याजकादिः ब्राह्मणयाजकः। क्षत्रिययाजकः। ब्राह्मणपूजकः। क्षत्रियपूजकः। याजकादयो ये याजकदिभिश्च 2-2-9 इति षष्ठीसमासार्थाः पठ्यन्ते त एव इह गृह्यन्ते। क्रीत गोत्रीतः। अश्वक्रीतः। कृत्स्वरापवादो ऽयं योगः। क्रीतशब्दे तु तृतीया कर्मणि 6-2-48 इत्यस्य अपवादः। व्याख्यानशयनासनस्थानानाम् अभावकर्मार्थं ग्रहणम्। कारकातित्येव, प्रकृतिः। प्रहृतिः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.