Table of Contents

<<3-3-115 —- 3-3-117>>

3-3-116 कर्मणि च येन संस्पर्शात् कर्तुः शरीरसुखम्

प्रथमावृत्तिः

TBD.

काशिका

येन कर्मणा संस्पृश्यमानस्य कर्तुः शरीरसुखम् उत्पद्यते, तस्मिन् कर्मणि उपपदे धतोः नपुंसकलिङ्गे भावे ल्युट् प्रत्ययो भवति। पूर्वेण एव सिद्धे प्रत्यये नित्यसमासार्थं वचनम्। उपपदसमासो हि नित्यः समासः। पयःपानं सुखम्। ओदनभोजनं सुखम्। कर्मणि इति किम्? तूलिकाया उत्थानं सुखम्। संस्पर्शातिति किम्? अग्निकुण्डस्य उपासनं सुखम्। कर्तुः इति किम्? गुरोः स्नापनं सुखम्। स्नापयतेः न गुरुः कर्ता, किं तर्हि, कर्म। शरीरग्रहणं किम्? पुत्रस्य परिष्वजनं सुखम्। सुखं मानसी प्रीतिः। सुखम् इति किम्? कण्ट्कानां मर्दनं दुःखम्। सर्वत्रासमासः प्रत्युदाह्रियते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

1571 कर्मणि च। कर्तुरिति कर्मणि षष्ठी, `उभयप्राप्तौ कर्मणि' इति नियमात्। येनेति तृतीया। तदाह– येन स्पश्यमानस्य कर्तुरिति। ल्युट् स्यादिति। नपुंसके भावे इति बोध्यम्। अत एवाह– पूर्वेणेति। `ल्युट् चे'त्यनेनेत्यर्थः। नेहेति। स्नानकर्तृत्वेऽपि स्नापने न गुरुः कर्ता, किंतु शिष्य इत्यर्थः। शरीरग्रहणं किम् ?। पुत्रस्य परिष्वजनं सुखम्। मानसी प्रीतिरत्र।

Satishji's सूत्र-सूचिः

TBD.