TBD.
संज्ञायाम् इति वर्तते, क्तः इति च। संज्ञायां विषये आशिषि गम्यमानायां कारकादुत्तरयोः दत्तश्रुतयोरेव क्तान्तयोरन्त उदात्तो भवति। देवा एनं देयासुः देवदत्तः। विष्णुरेनं श्रूयात् विष्णुश्रुतः। कारकातिति किम्? कारकान् नियमो मा भूत्। सम्भूतो रामायणः। दत्तश्रुतयोः इति किम्? देवपालितः। एतस्मान् नियमादत्र संज्ञायाम् अनाचितादीनाम् 6-2-146 इत्यन्तोदात्तत्वं न भवति। तृतीया कर्मणि 6-2-48 इत्येव अत्र भवति। एवकारकरणं किम्? कारकावधारणं यथा स्यत्, दत्तश्रुतावधारणं मा भूत्। अकारकादपि दत्तश्रुतयोरन्त उदात्तो भवति। संश्रुतः। विश्रुतः। आशिषि इति किम्? अनाऽशिषि नियमो मा भूत्। देवैः खाता देवखाता। कारकाद् दत्तश्रुतयोराशिस्येव इत्येवम् अत्र नियम इष्यते। तेन आहतो नदति देवदत्तः इत्यत्र न भवति। देवदत्त इति कस्यचिच्छङ्खस्य नाम। तत्र तृतीया कर्मणि 6-2-48 इति पूर्वपदप्रकृतिस्वरत्वम् एव भवति।
TBD.
–
–
–
TBD.