Table of Contents

<<6-2-145 —- 6-2-147>>

6-2-146 संज्ञायाम् अनाचितादीनाम्

प्रथमावृत्तिः

TBD.

काशिका

संज्ञायां विषये गतिकारकोपपदाद् क्तान्तम् उत्तरपदम् अन्तोदात्तं भवति आचितादीन् वर्जयित्वा। सम्भूतो रामायणः। उपहूतः शाकल्यः। परिजग्धः कौण्डिन्यः। सम्भूतः इति प्रत्यर्थात् भवतेः कर्मणि क्तः। गतिरनन्तरः 6-2-49 इत्यत्र हि कर्मणि इत्यनुवर्तते, तद्बाधनार्थं चेदम्। धनुष्खाता नदी। कुद्दालखातं नगरम्। हस्तिमृदिता भूमिः। तृतीया कर्मणि 6-2-48 इति प्राप्तिरिह बाध्यते। अनाचितादीनाम् इति किम्? आचितम्। अप्र्याचितम्। आस्वापितम्। परिगृहीतम्। नरुक्तम्। प्रतिपन्नम्। प्राश्लिष्टम्। उपहतम्। उपस्थितम्। संहिता ऽगवि। संहिताशब्दो यदा गोरन्यस्य संज्ञा तदा अन्तोदत्तो न भवति। यदा तु गोः संज्ञा तदा अन्तोदात्त एव।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.