Table of Contents

<<6-2-146 —- 6-2-148>>

6-2-147 प्रवृद्धादीनां च

प्रथमावृत्तिः

TBD.

काशिका

प्रवृद्धादीनां च क्तान्तम् उत्तरपदम् अन्तोदात्तं भवति। प्रवृद्धं यानम्। प्रवृद्धो वृषलः। प्रयुक्ताः सक्तवः आकर्षे अवहितः। अवहितो भोगेसु। खट्वारूढः। कविशस्तः। यानदीनाम् अत्र गणे पाठः प्रायोवृत्तिप्रदर्शनार्थः, न विषयनियमार्थः। यानादिभ्यो ऽन्यत्र अपि तेषाम् अन्तोदात्तत्वम् भवत्येव। विषयनियमार्थ एव इत्येके। असंज्ञार्थो ऽयम् आरम्भः। आकृतिगणश्च प्रवृद्धादिर् द्रष्तव्यः। तेन पुनरुत्स्यूतं वासो देयम्, पुनर्निष्कृतो रथः इत्येवम् आदि सिद्धं भवति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

–

बालमनोरमा

–

तत्त्वबोधिनी

–

Satishji's सूत्र-सूचिः

TBD.