Table of Contents

<<6-2-139 —- 6-2-141>>

6-2-140 उभे वनस्पत्यादिषु युगपत्

प्रथमावृत्तिः

TBD.

काशिका

प्रकृत्या इति वर्तते। वनस्पत्यादिषु समासेषु उभे पूर्वोत्तरपदे युगपत् प्रकृतिस्वरे भवतः। वनस्पतिः। वनपतिशब्दावाद्युदात्तौ, पारस्करप्रभृतित्वात् सुट्। बृहस्पतिः। बृहतां पतिः। तद्बृहतोः करपत्योश्चोरदेवतयोः सुट् तलोपश्च इति सुट् तकारलोपश्च। बृहदित्येतदन्तोदात्तं निपातयन्ति। तस्य केचिदाद्युदात्तत्वं वर्णयन्ति। शचीपतिः। शचीशब्दः कृदिकारादक्तिनः इति ङीषन्तत्वादन्तोदात्तः। केचित् तु शार्ङ्गरवादिसु पठन्ति तेषाम् आद्युदात्तः। तनूनपात्। तनोतेरौणादिकः ऊप्रत्ययः, तेन तनूशब्दो ऽन्तोदात्तः। न पाति न पालयति वा नपात् क्विबन्तः। नभ्राण्नपाद् 6-3-75 इत्यादिना आद्युदात्तो निपातितः। तन्वा नपात् तनूनपात्। नराशंसः। नरा अस्मिनासीनाः शंसन्ति, नरा एवं शंसन्ति इति वा नराशंसः। नृ\उ0304 नये। अबन्तो नरशब्दः आद्युदात्तः। शंसशब्दो ऽपि घञन्तः। अन्येषाम् अपि दृश्यते 6-3-167 इति दीर्घत्वम्। शुनःशेपः। शुन इत्व शेपः अस्य इति बहुव्रीहिः। तत्र शेपपुच्छलाङ्गूलेषु शुनः संज्ञायाम् 6-3-21 इति षष्ठ्या अलुक्। उभावाद्युदात्तौ। शण्डामर्कौ। शण्डमर्कशब्दौ घञन्तत्वादाद्युदात्तौ। तयोर् द्वन्द्वे अन्येषाम् अपि दृश्यते 6-3-167 इति दीर्घत्वम्। तृष्णावरूत्री। तृष्णाशब्द आद्युदात्तः। वरूत्रीशब्दो ग्रसितादिसूत्रे निपातितो ऽन्तोदात्तः। तत्र द्वन्द्वे दीर्घत्वं पूर्ववत्। बम्बाविश्ववयसौ। बम्बशब्दो ऽन्तोदात्तः। विश्ववयःशब्दो ऽपि बहुव्रीहौ विश्वं संज्ञायाम् 6-2-106 इति विश्वशदो ऽन्तोदात्तः। तयोर् द्वन्द्वे दीर्घत्वं पूर्ववत्। मर्मृत्युः। मरिति मृञो विच्प्रत्ययः। मृत्युशब्दो ऽन्तोदात्तः। द्वन्द्वानामदेवताद्वन्द्वार्थो ऽनुदात्ताद्युत्तरपदार्थश्च वनस्पत्यादिषु पाठः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.