Table of Contents

<<6-1-98 —- 6-1-100>>

6-1-99 न आम्रेडितस्य अनत्यस्य तु वा

प्रथमावृत्तिः

TBD.

काशिका

अव्यक्तानुकरणस्य आम्रेडितस्य यो अत्शब्दः इतौ तस्य पररूपं न भवति, तस्य यो ऽन्त्यस्तकारस्तस्य वा भवति। पटत्पटदिति, पटत्पटेति करोति। नित्यवीप्सयोः 8-1-4 इति द्विर्वचनम्। यदा तु समुदायानुकरणं तदा भवत्येव पूर्वेण पररूपम्, पटत्पटेति करोति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

82 तत्राह-नाम्रेडितस्य। `अव्यक्तानुकरणस्यात #इता'विति `पररूप'मिति `एकः पूर्वपरयो'रिति चानुवर्तते। आम्रेडितस्याव्यक्तानुकरणस्यावयवो योऽच्छब्दस्तस्येतिशब्दे परे पररूपं न स्यात्। अन्त्यस्य तु वा। तुरवधारणे। अच्छब्दान्त्यस्य तकारस्यैव इकारस्य च पररूपं वा स्यान्नत्वकारस्यापीत्यर्थः। तदाह–आम्रेडीतस्य प्रागुक्तमित्यादिना। ननु पटत् पटदित्यत्र कथं द्वित्वमित्यत आह–डाचीति। `डाचि बहुलं द्वे भवत इति द्वित्व'मित्यन्वयः। नन्वव्यक्तानुकरणाद्?द्?व्यजवरार्धादनितौ डाच्' इति डाचः कथमिह संभवः, इतिशब्दे परतस्तत्पर्युदासः स्यादित्यत आह–बहुलग्रहणादिति। वेत्यनुक्त्वा बहुलग्रहणमदिकविधानार्थं, बहूनर्थान् लाति गृह्णातीति तद्व्युत्पत्तेरिति भावः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.