Table of Contents

<<6-1-97 —- 6-1-99>>

6-1-98 अव्यक्तानुकरणस्य अत इतौ

प्रथमावृत्तिः

TBD.

काशिका

अव्यक्तम् अपरिस्फुटवर्णम्, तदनुकरणं परिस्फुटवर्णम् एव केनचित् सादृश्येन तदव्यक्तम् अनुकरोति, तस्य यो अत्शब्दः तस्मातितौ पूर्वपरयोः स्थाने पररूपम् एकादेशो भवति। पटतिति पटिति। घटतिति घटिति। ज्ञटतिति ज्ञतिति। छमितिति छमिति। अव्यक्तानुकरणस्य इति किम्? जगतिति जगदिति। अतः इति किम्? मरटिति मरडिति। इतौ इति किम्? पटतत्र पटदत्र। अनेकाच इति वक्तव्यम्। इह मा भूत्, श्रतिति श्रदिति। कथम् घटदिति गम्भीरमम्बुदैर्नदितम् इति? दकारान्तम् एतदनुकरणं द्रष्टव्यम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

81 अव्यक्तानुकरणस्य। पररूपमिति वत्र्तते। अव्यक्तः=अस्फुटवर्णविभागो वृक्षपतनादिजनितध्वनिः। तस्यानुकरणं=तत्प्रतिपादकस्तत्सदृशोऽपरिस्फुटवर्णविभागः शब्दः। तस्यावयवो यो।ञच्छब्दस्तस्मादितिशब्दे परेऽच्छब्दस्य इकारस्य च स्थाने पररूपं स्यादित्यर्थः। अत्र इतिशब्दे यः प्रथम इकारस्तस्मिन्परे इति व्याख्येयम्। अन्यथा इतिशब्दस्य कृत्स्नस्यादेशप्रसङ्गात्। तदाह-धवनेरित्यादिना। अत्राऽलोऽन्त्यस्येति न भवति, `नानर्थकेऽलोऽन्त्यविधि'रिति निषेधात्। पटत्-इतीति प्रक्रियावाक्यप्रदर्शनम्। न तु पररूपाऽभावपक्षे रूपमिति भ्रमितव्यम्, अत्र पररूपस्य नित्यत्वात्। असंहितायां निर्देशो वा। पटितीति। उदाहरणमेतत्। `वृक्षः पतित' इत्याद्यध्याहार्यम्। \र्\नत्राऽनेकाज्ग्रहणं कर्तव्यमिति वार्तिकमर्थतः सङ्गृह्णाति–एकाचो नेति . एकोऽच् यस्य स एकाच्, तथाभूतस्यानुकरणस्य उक्त पररूपं नेत्यर्थः। श्रदितीति। अत्र एकाच्त्वान्न पररूपम्। ननु पटत्पटत्-इतीत्यत्र पटत्पटेति रूपमिष्यते। तत्राव्यक्तानुकरणस्येति पररूपे पटत्पटितीत्येव स्यात्।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.