Table of Contents

<<6-1-83 —- 6-1-85>>

6-1-84 एकः पूर्वपरयोः

प्रथमावृत्तिः

TBD.

काशिका

अधिकारो ऽयम्। ख्यत्यात् परस्य 6-1-112 इति प्रागेतस्मात् सूत्रातिति उत्तरं यद् वक्ष्यामस् तत्र पूर्वस्य परस्य द्वयोरपि स्थाने एकादेशो भवति इत्येतद् वेदितव्यम्। वक्ष्यति आद् गुणः 6-1-87 इति। तत्र अचि पूर्वस्य अवर्णात् च परस्य स्थाने एको गुणो भवति। खट्वेन्द्रः मालेन्द्रः। पूर्वपरग्रहणं द्वयोरपि युगपदादेशप्रतिपत्त्यर्थम्, एकस्य एव हि स्यात्, नोभे सप्तमीपञ्चम्यौ युगपत् प्रकल्पिके भवतः इति। एकग्रहणम् पृथगादेशनिवृत्त्यर्थं, स्थानिभेदाद् धि भिन्नादिषु नत्ववद् द्वावादेशौ स्याताम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

69 तर्हि कुतोऽत्र यणावलादेशौ न भवत इत्यत आह–न पदान्तेति सूत्रेण पदान्तविधौ तन्निषेधादिति। पदान्तभूतेकारौकारयोः स्थाने भवतोर्यणावादेशयोः पदचरमावयवतया तयो कर्तव्ययोः परनिमित्तकस्याऽजादेशस्या।ञल्लोपस्य स्थानिवत्त्वनिषेधादित्यर्थः। अथ एकादेशसन्धिं निरूपयितुमाह–एकः पूर्वपरयोः इत्यधिकृत्येति। पदद्वयात्मकमिदं सूत्रमुत्तरत्रानुवृत्त्यर्थं पठित्वा कतिपयसन्धयो विधास्यन्त इत्यर्थः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.