TBD.
यो ऽयम् एचः स्याने वन्तादेशः ओकारस्य अव्, औकारस्य आव्, स यकारादौ प्रत्यये परतो भवति। बाभ्रव्यः। माण्डव्यः। शङ्कव्यं दारु। पिचव्यः कार्पासः। नाव्यो ह्रदः। वान्तः इति किम्? रायम् इच्छति रैयति। यि इति किम्? योभ्याम्। नौभ्याम्। प्रत्यये इति किम्? गोयानम्। नौयानम्। गोर्यूतौ छन्दसि। गोशब्दस्य यूतौ परतः छन्दसि विसये वान्तादेशो वक्तव्यः। आ नो मित्रावरुणा घृतैर्गव्यूतिमुक्षतम्। छन्दसि इति किम्? गोयूतिः। अध्वपरिमाणे च। गोर्यूतौ परतो वान्तादेशो वक्तव्यः। गव्यूतिमात्रम् अध्वानं गतः।
TBD.
676 शपोऽपवादः. तनोति, तनुते. ततान, तेने. तनितासि, तनितासे. तनोतु. तनुताम्. अतनोत्, अतनुत. तनुयात्, तन्वीत. तन्यात्, तनिषीष्ट. अतानीत्, अतनीत्..
64 वान्तो यि प्रत्यये। `यि'इति सप्तम्यन्तम्। तेन यकारादाविति लभ्यते। `यस्मिन्विधिस्तदादावल्ग्रहणे' इति वार्त्तिकात्। तत्र यस्मिन्निति सप्तम्यन्तं विवक्षितम्। अलिति वर्णपर्यायः। सप्तम्यन्ते वर्णग्रहणे यो विधिः स तद्वर्णादौ ज्ञेय इति तदर्थः। येन विधिरित्यस्यायमपवादः। वकारोऽन्ते यस्य स वान्तः। पूर्वसूत्रोपात्तोऽवादेश आवादेशश्च विवक्षितः। तौ च कयोर्भवत इत्याकाङ्क्षायामोदौतोरित्यर्थाल्लभ्यते, पूर्वसूत्रे तयोरेव तदुभयस्थानित्वेन क्लृप्तत्वात्। तदाह–यकारादावित्यादिना। गव्यमिति। गो–य इति स्थिते ओकारस्याऽच्परकत्वाऽभावादेचोऽयवायाव इत्यप्राप्तेऽवादेशोऽत्र विधीयते। अस्ति चात्र यु इत्यस्य प्रत्ययत्वमित्याह–गोपयसोर्यदिति। `अनेन सूत्रेण गोशब्दाद्विकारार्थे यत्प्रत्यय' इति शेषः नाव्यमिति। नौ-य इति स्थिते औकारस्य अचपरकत्वाऽभावादेचोऽयवायाव इत्यप्राप्तेऽवादेशोऽत्र विधीयते। अस्ति चात्र य इत्यस्य प्रत्ययत्वमित्याह–गोपयसोर्यदिति। `अनेन सूत्रेण गोशब्दाद्विकारार्थे यत्प्रत्यय' इति शेषः। नाव्यमिति। नौ–य इति स्थिते औकारस्य अच्परकत्वाऽभावादेचोऽयवायाव इत्यप्राप्ते वचनमिदम्। अस्ति चात्र य इत्यस्य प्रत्ययत्वमित्याह–नौवय इति। गव्यं नाव्यमित्यत्र लोपः शाकल्यस्येति हलि सर्वेषामिति च वकारस्य लोपो न भवति, तयोः पदान्तविषयत्वात्, इह च भत्वेन पदत्वबाधात्। गोशब्दावयवस्य ओकारस्य स्थाने अविति वान्तादेसो भवतीति उपसंख्यानम्=अधिकवचनं कर्तव्यमिति सूत्रकारः शिक्ष्यते। `आ नो मित्रावरुणा घृतैर्गंव्यूतिमुक्षत'मित्युदाहरणम्। गव्यूतिः=गोप्रचारभूमिः। गावो यूयन्ते मिश्र्यन्तेऽस्यामित्यधिकरणे युधातो क्तिनिति वेदभाष्ये भट्टभास्करः। अत्र यूतिशब्दस्य प्रत्ययत्वाऽभावात्तस्मिन् परतो `वान्ते यि प्रत्यये' इत्यप्राप्तौ वचनमिदम्। परे गोशब्दावयवस्य ओकारस्य अविति वान्तादेशस्य उपसङ्ख्यानं कर्तव्यमित्यर्थः। लोकेऽपि प्राप्त्यर्थमिदम्। यद्यपि पूर्ववार्तिकं वैदिकप्रक्रियायामेव उपन्यसनीयं, तथाप्यत्राऽनुवृत्तिबोधसौकर्यार्थमिह तदुपन्यासः। गव्यूतिरिति। यावति गोशब्दो यूयते मिश्र्यते श्रूयते तावानध्वा गव्यूति-क्रेशयुगम्। `गव्यूतिः स्त्री कोशयुग'मित्यमरः। युधातोरधिकरणे क्तिन्। कथमिह युधातोदीर्घ इत्यत आह–ऊतियूतीति। निपातनादेव दीर्घ इति भावः। सिद्धप्रक्रियस्य निर्देशो निपातनम्। ननु गव्यं नाव्यमित्यत्र भत्वेन पदत्वबाधाल्लोपः शाकल्यस्येति `हलि सर्वेषा'-मिति च वलोपाभावेऽपि गव्यूतिरित्यत्र लोपः स्यात्, अन्तर्वर्तिनीं विभक्तिमाश्रित्य पदत्वात् यूतिशब्दस्य यजादि-स्वादिप्रत्यत्वाऽभावेन तस्मिन् परतो भत्वाऽभावाच्चेत्यत आह–वान्त इत्यत्रेत्यादि। `वान्तो यि प्रत्यय' इत्यत्र वकाराद्गोर्यूतावित्यत्र छकाराद्वा पूर्वभागे वकारः प्रश्लिष्यत इत्यन्वयः। तर्हि व् वान्त इति, व् छन्दसीति च वकारः कुतो न श्रूयत इत्यत आह-लोपो व्योरितिलोपेनेति। `अन्तर्हित' इति शेषः। ननु प्रश्लेष#ए सति किमायातमित्यत आह–तेनेति। `वान्ते यी'ति सूत्रे वकरात् प्राग्विति प्रश्लिष्यमाणं वान्तस्य विशेषणम्। विशेषणत्वाच्च तदन्तविधौ सति वकारान्त इति लभ्यते। तत्र वान्तस्य पुनर्वान्तत्ववचनसामथ्र्यात्च्छ\उfffद्यमाणवकारवान् वान्त आदेशः स्यादिति लभ्यते। गोर्यूतावित्यत्र चेदमेव वान्तग्रहणमनुवर्तत इति तत्रापि श्रूयमाणवकारवान् वान्तादेश इति लभ्यते। गोर्यूतावित्यत्र छकारात्प्राग्विति प्रश्लिष्यमाणमपि पूर्वसूत्रादनुवृत्तस्य वान्त #इत्यस्य विशेषणमिति तदन्तविधिना वान्तत्वलाभे वान्तस्य पुनर्वान्कतत्ववचनसामथ्र्याच्छ\उfffद्यमाणवकारवानिति लभ्यत इत्यर्थः। नन्वेतावता गव्यूतिरित्यत्राऽवादेशे वकारस्य श्रूयमाणत्वलाभेऽपि लोपशङ्का न परिह्मतेत्यत आह–वकारो न लुप्यत इति यावदिति। वकारस्य श्रूयमाणत्ववचनं वकारो न लुप्यत इत्यर्थे पर्यवसन्नमित्यर्थः, अश्रवणस्यैव, लोपशब्दार्थत्वादिति बावः। यद्यपि `वान्तो यी'ति सूत्रे वकारप्रश्लेषस्य तदुदाहरणे गव्यं नाव्यमित्यत्र प्रयोजनं नास्ति, तत्र भत्वेन पदत्वस्य बाधेनोक्तलोपस्याऽप्राप्तेः। लव्यमित्यादौ स्वत #एव पदत्वाऽभावाल्लोपस्याऽप्राप्तिः। गामिच्छति गव्यतीत्यत्र क्यजन्तेऽपि वकारस्य न लोपप्रसक्तिः, ` न क्ये' इति नियमेन तत्र पदत्वाऽभावात्। तथापि गोर्यूताविति वार्तिके तदनुवृत्तौ गव्यूतिरित्यत्र प्रयोजनमस्त्येव। एवं च वार्तिक एवन तत्प्रश्लेष उचितः। एतस्मादेवाऽस्वरसाच्छकाराद्वेत्युक्तम्। वस्तुतस्तु वकार प्रश्लेषोऽनुपपन्नः, तथा सति सूत्रे वार्तिके च प्रश्लिष्टस्य तस्य श्रवणप्रसङ्गात्। न च `लोपो व्यो'रिति लोपात्तदश्रवणमिति वाच्यम्, `वकारलोपस्य उदाहरणाऽभावाद्वकारग्रहणं न कर्तव्य'मिति लोपो व्योरिति सूत्रस्थभाष्यविरोधात्। अतोऽत्र प्रश्लिष्टवकारस्य छान्दस एव लोपो वर्णनीयः। प्रक्रियाप्रकाशे तु `संज्ञापूर्वको विधिरनित्य' इति वचनाद्रव्यूतिरित्यत्र न वकारलोप इत्युक्तम्। अन्येत्विको गुणवृद्धी इति सूत्रे अतो लान्तस्येत्त्र लुप्तनिर्दिष्टो वकार इति भाष्यप्रामाण्यात् क्वचिदस्ति वकारलोप इत्याहुः।
53 वान्तो यि प्रत्यये। यीति किम् ?। गोभ्याम्। नौभ्याम्। प्रत्यये किम् ?। गोयानाम्। यकारादाविति। `येन विधि'रिति सूत्रस्यापवादभूतेन `यस्मिन्विधिस्तदादावल्ग्रहणे' इति वार्तिकेनाऽयमार्थो लभ्यते। ओदौतोरिति। [`उपस्थितानुपस्तितयोरुपस्थितं बलीयः'।] पूर्वसूत्रे तयोरेव वान्तौ प्रति स्थानित्वेन निर्णीतत्वादिति भावः।\र्\नद्वेति। भाषार्थमिदम्। गोर्यतौ लोकेऽपि वान्तादेशः स्यात्समुदायेनाऽध्वनः परिमाणं गम्यते चेदित्यर्थः। `गव्यूतिः स्त्री क्रोशयुग'मित्यमरः। निपातित इति। क्तिन्नन्तत्वेनेत्यर्थः। ननु `गव्य' `नाव्य'मित्यत्र भत्वेनाऽपदत्वाद्वलोपाभावेऽपि `गव्यूति'रित्यत्र `हलि सर्वेषा'मिति, `लोपः शाकल्यस्ये'ति वा लोपः स्यादत आह–वान्तैत्यत्रेति। वकारो न लुप्यत इति। एवं च `हलि सर्वेषा'मिति सूत्रे `व्यो'रित्यनुवृत्तावपि वकारं परित्यज्य `यस्य लोपः स्या'दिति व्याख्यास्यमानं सङ्गच्छते। एतच्च तत्रैव स्फुटीकरिष्यते।
वृत्तिः यकारादौ प्रत्यये परे ओदौतोरव् आव् एतौ स्तः । When followed by an affix which begins with a यकारः, the letters “ओ” and “औ” are replaced by “अव्” and “आव्” respectively.
उदाहरणम् – (त्वया/मया/अन्येन वा) लव्यं फलम्। लव्यम् derived from √लू (लूञ् छेदने ९. १६).
लू + यत् 3-1-97
= लू + य 1-3-3, 1-3-9. Note: “य” gets आर्धधातुक-सञ्ज्ञा by 3-4-114
= ल् ओ + य 7-3-84
= ल् अव् + य 6-1-79
= लव्य
“लव्य” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46
The विवक्षा is नपुंसकलिङ्गे, प्रथमा-एकवचनम्।
लव्य + सुँ 4-1-2
= लव्य + अम् 7-1-24, 1-3-4
= लव्यम् 6-1-107