Table of Contents

<<6-1-61 —- 6-1-63>>

6-1-62 अचि शीर्षः

प्रथमावृत्तिः

TBD.

काशिका

श्जादौ तद्धिते शिरसः शीर्षशब्दः आदेशो भवति। हस्तिशिरसः अपत्यं हास्तिशीर्षिः। बाह्वादिभ्यश्च 4-1-96 इति इञ्। स्थूलशिरसः इदं स्थौ लशीर्षम्। शीर्षन्भावे हि अन् 6-4-167 इति प्रकृतिभावः स्यात्। हास्तिशीर्षिशब्दात् स्त्रियाम् इञो ऽणिञोरनार्षयोः ष्यङादेशे कृते शीर्षस्य शिरःशब्दग्रहणेन ग्रहणात् शीर्षन्नादेशः प्राप्नोति। तत्र प्रकृतिभावे सति हास्तिशीर्षण्या इत्यनिष्टं रूपं स्यात्। इष्यते तु हास्तिशीर्ष्या इति। तत् कथम्? कर्तव्यो ऽत्र यत्नः। अणिञन्ताद् वा परः प्रत्ययः ष्यङाश्रयितव्यः, तत्र यस्य इति लोपस्य स्थानिवद्भावाद् व्यवधानम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.