TBD.
शीर्षनिति वर्तते। आदेशो ऽयम् इष्यते। स कथम्? तद्धिते इति हि परं निमित्तम् उपादीयते, स तदनुरूपां प्रकृतिं शिरःशब्दम् आक्षिपति। यकारादौ तद्धिते परतः शिरःशब्दस्य शीर्षन्नादेशो भवति। शिर्षण्यो हि मुख्यो भवति। शीर्षण्यः स्वरः। शिरसि भवः इति शरीरावयवाच् च 4-3-55) इति यत्, ये च अभावकर्मणोः (*6,4.138 इति प्रकृतिभावः। तद्धिते इति किम्? शिरः इच्छति शिरस्यति। वा केशेषु। शिरसः शीर्षन्नादेशो वक्तव्यः। शीषर्ण्याः केशाः, शिरस्याः केशाः।
TBD.
–
1645 ये च तद्धिते। शीर्षन्नादेश इति। शीर्षंश्छन्दसीत्यतस्तदनुवृत्तेरिति भावः। शीर्षण्य इति शिरसे हित इत्यर्थः। शरीरावयवत्वाद्यति शीर्षन्नादेशे `ये चाऽभावकर्मणो'रिति प्रकृतिभावान्न टिलोपः। शिरस्यतीति। शिर आत्मन इच्छतीत्यर्थे `सुप आत्मनः' इति क्यचि, `नः क्ये' इति नियमात्पदत्वाऽभावान्न रुत्वम्। केशेषु। केशेषु वाच्येषु यो यकारादिस्तद्धितस्तस्मिन्परे शिरसः शीर्षन्नादेशो वा स्यादित्यर्थः।
1270 ये च त। `शीर्षंश्छन्दसी'त्यतोऽनुवर्तनादाह—शीर्षन्नादेश इति। केशेषु। शीर्षण्य इति। `ये चाऽभावे'ति प्रकृतिभावः। शिरस्यतीति। `न क्ये'इति नियमेन पदत्वाऽभावाद्रुत्वाऽभावः।
TBD.