Table of Contents

<<4-1-95 —- 4-1-97>>

4-1-96 बाह्वादिभ्यश् च

प्रथमावृत्तिः

TBD.

काशिका

बाहु इत्येवम् आदिभ्यः शब्देभ्यो ऽपत्ये इञ् प्रत्ययो भवति। बाहविः। औपबाहविः। अनकारार्थ आरम्भः। क्वचिद् बाधकवाधनार्थः। बाहु। उपबाहु। विवाकु। शिवाकु। बटाकु। उपबिन्दु। वृक। चूडाला। मूषिका। बलाका। भगला। छगला। घ्रुवका। धुवका। सुमित्रा। दुर्मित्रा। पुष्करसत्। अनुहरत्। देवशर्मन्। अग्निशर्मन्। कुनामन्। सुनामन्। पञ्चन्। सप्तन्। अष्टन्। अमितौजसः सलोपश्च। उदञ्चु। शिरस्। शराविन्। क्षेमवृद्धिन्। शृङ्खलातोदिन्। खरनादिन्। नगरमर्दिन्। प्राकारमर्दिन्। लोमन्। अजीगर्त। कृष्ण। सलक। युधिष्ठिर। अर्जुन। साम्ब। गद। प्रद्युम्न। राम। उदङ्कः संज्ञायाम्। अम्भूयो ऽम्भसोः सलोपश्च। बाह्वादिप्रभृतिषु येषां दर्शनं गोत्रभावे लौकिके ततो ऽन्यत्र तेषां प्रतिषेधः। बाहुर्नाम कश्चित्, तस्य अपत्यं बाहवः। सम्बन्धिशब्दानां च तत्सदृशात् प्रतिषेधः। संज्ञा श्वशुरस्य अपत्यं श्वाशुरिः। चकारो ऽनुक्तसमुच्चयार्थः आकृतिगणतामस्य बोधयति। जाम्बिः। ऐन्द्रशर्मिः। आजधेनविः। आजबन्धविः। औडुलोमिः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

1018 बाहविः. औडुलोमिः. (लोम्नोऽपत्येषु बहुष्वकारो वक्तव्यः). उडुलोमाः. आकृतिगणोऽयम्..

बालमनोरमा

1080 बाह्वादिभ्यश्च। `अपत्ये इ'ञिति शेषः। बाहविरिति। बाहुर्नाम कश्चिदृषिः, अथ `ऋषयः' इत्यधिकृत्य`बाहविर्गाग्र्यगौतमौ' इत्या\उfffदालायनसूत्रे दर्शनात्। बाहोरपत्यमिति विग्रहः। इञि ओर्गुणः। औडुलोमिरिति। उडुलोम्नोऽपत्यमिति विग्रहः। इञि `नस्तद्धिते' इति टिलोपः। आदिवृद्धिः, अदन्तात्वाऽभावादप्राप्तिः।

तत्त्वबोधिनी

904 बाह्वदिभ्यश्च। `बाधृ लोडने'इति धातौ `केवलस्य बाहोरपत्ययोगाऽसंभवात्सामथ्र्यात्तदन्तविधौ सौबाहविः' इति माधवोक्तं चिन्त्यमिति ध्वनयन्नाह—बाहविरिति। `जानन्तिबाहविगाग्र्यगौतमा' इत्या\उfffदालायनसूत्रप्रयोगाद्भाष्यवृत्त्याद्युदाहरणाच्च बाहुशब्दः संज्ञारूपोऽस्तीति भावः। औडुलोमिरिति। यद्यपि गणे बाहु कृष्ण युधिष्ठिर अर्जुन प्रद्युम्नेत्यादिषु केवलो लोमन्शब्दः पठितस्तथापि सामथ्र्यात्तदन्तग्रहणम्। `तारकाप्युडु वा स्त्रियाम्' इत्यमरोक्त्या नक्षत्रवाच्युडुशब्दः। उडूनीव लोमानि यस्य तस्यापत्यमौडुलोमिः। शरा इव लोमानि यस्य तस्यापत्यं शारोमिः। बहुत्वे तु इञपवादोऽकारः प्रागेवाऽजन्तेषूक्तः। उडुलोमाः। शरलोमाः। इह प्रतिपदविधानेषु पुराणसिद्धाः संज्ञाशब्दा एव गृह्रन्ते, शीघ्रोपस्थितिकत्वात्। तेन इदानीतनो यो बाहुस्तस्यापत्ये बाहव इत्यणेव, न त्विञ्। उक्तं च हरिणा—`अभिव्यक्तपदार्था ये स्वतन्त्रा लोकविश्रुताः। शास्त्रार्थस्तेषु कर्तव्यः शब्देषु न तदुक्तिषु'। अनर्थकं संदिग्धार्थकमप्रयुक्तं च क्रमेण विशेषणत्रयव्यावर्त्त्यम्। तदुक्तिषु। तत्सदृशेष्वित्यर्थः। अत एव संज्ञा\उfffदाशुरस्यापत्यं \उfffदाआशुरिरित्यत्र `राजा\उfffदाशुरा'दिति यन्न। मिमीते माता। तस्य स्वसा मातृस्वसा। इह `मातृपितृभ्यां स्वसे'ति षत्वं न। नन्वेवं बाहवः \उfffदाआशुररिरिति पूर्वोक्तौ न सिद्द्यति इति चेत्। मैवम्। अणिञोर्विघौ शब्दविशेषानुपादानादप्रसिद्धेष्वपि तत्प्रवृत्तेः। वेदान्व्यस्यतीति वेदव्यासः। `कर्मण्यण्'। भीमो मीमसेन इतिवदेकदेशग्रहणम्।

Satishji's सूत्र-सूचिः

TBD.