Table of Contents

<<6-1-58 —- 6-1-60>>

6-1-59 अनुदात्तस्य च र्दुपधस्य अन्यतर्स्याम्

प्रथमावृत्तिः

TBD.

काशिका

उपदेशे इति वर्तते, ज्ञल्यम् अकिति इति च। उपदेशे ऽनुदात्तस्य धातोः ऋकारोपधस्य ज्ञलादावकिति प्रत्यये परतो ऽन्यतरस्याम् अमागमो भवति। त्रप्ता, तर्पिता, तर्प्ता। द्रप्ता, दर्पिता, दर्प्ता। तृप प्रीणने, दृप हर्षमोचनयोः, इत्येतौ रधादी धतू, तयोः इडागमः रधादिभ्यश्च 7-2-45 इति विकल्प्यते। अनुदात्तोपदेशः पुनरमर्थ एव। अनुदात्तस्य इति किम्? वर्ढा, वर्ढुम्, वर्ढव्यम्। वृहू उद्यमने इत्ययम् उदात्तोपदेशः ऊदित्वाच्चास्येड् विकलोप्यते। ऋदुपधस्य इति किम्? भेत्ता। छेत्ता। ज्ञलि इत्येव, तर्पणम्। दर्पणम्। अकिति इत्येव, तृप्तः। दृप्तः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

656 उपदेशेऽनुदात्तो य ऋदुपधस्तस्याम्वा स्याज्झलादावकिति. क्रष्टा, कर्ष्टा. कृक्षीष्ट. (स्पृशमृशकृषतृपदृपां च्लेः सिज्वा वक्तव्यः). अक्राक्षीत्, अकार्क्षीत्, अकृक्षत्. अकृष्ट. अकृक्षाताम्. अकृक्षत. क्सपक्षे अकृक्षत. अकृक्षाताम्. अकृक्षन्त.. मिल संगमे.. 5.. मिलति, मिलते, मिमेल. मेलिता. अमेलीत्.. मुचॢ मोचने.. 6..

बालमनोरमा

तत्त्वबोधिनी

207 अनुदात्तस्य। `आदेच उपदेशेऽशिती'त्यत उपदेश इत्यनुवर्तते। उपदेशे किम् ?। रुआप्तुम्। तुमुनि उदात्तः। ऋदुपधस्य किम् ?। कर्ता। झलीति किम् ?। ससर्प। अकितीति किम्?। सृप्तः। असृपदिति। लृदित्त्वादङ्। `स्पृशमृशे'ति सिज्विकल्पवार्तिके सृपं प्रक्षिप्य `अरुआआप्सीदसार्प्सी'दिति केचिदुदाहरन्ति, तत्प्रामादिकमित्याहुः। अयंसीदिति। `यमरमे'तीट्सकौ।

Satishji's सूत्र-सूचिः

वृत्ति: उपदेशेऽनुदात्तो य ऋदुपधस्तस्यां वा स्याज्झलादावकिति । When followed by an affix which is अकित् (does not have ककार: as a इत्) and which begins with a झल् letter, a verbal root which is अनुदात्तोपदेशः and has a penultimate ऋकारः optionally takes the augment “अम्”।

Example continued from वार्तिकम् (under 3-1-44) स्पृश-मृश-कृष-तृप-दृपां च्लेः सिज्वा वाच्यः

“अम्”-पक्षे – Let us first consider the case where the augment “अम्” is used:
= स्पृ अम् श् + स् + ईत् 6-1-59, 1-1-47
= स्पृ अ श् + स् + ईत् 1-3-3, 1-3-9
= स्प्रश् + स् + ईत् 6-1-77
= स्प्राश् + स् + ईत् 7-2-3
= अट् स्प्राश् + स् + ईत् 6-4-71, 1-1-46
= अ स्प्राश् + स् + ईत् 1-3-3, 1-3-9
= अ स्प्राष् + स् + ईत् 8-2-36
= अस्प्राक् + स् + ईत् 8-2-41
= अस्प्राक्षीत् 8-3-59

“अम्”-अभावे – Now let us the consider the case where the augment “अम्” is not used:

स्पृश् + स् + ईत्
= स्पार्श् + स् + ईत् 7-2-3, 1-1-51
= अट् स्पार्श् + स् + ईत् 6-4-71, 1-1-46
= अ स्पार्श् + स् + ईत् 1-3-3, 1-3-9
= अ स्पार्ष् + स् + ईत् 8-2-36
= अस्पार्क् + स् + ईत् 8-2-41
= अस्पार्क्षीत् 8-3-59

Finally let us consider the case where the optional substitution “सिँच्” (by the वार्तिकम् स्पृश-मृश-कृष-तृप-दृपां च्लेः सिज्वा वाच्यः) is not used.

स्पृश् + लुँङ् 3-2-110
= स्पृश् + ल् 1-3-2, 1-3-3, 1-3-9
= स्पृश् + तिप् 3-4-78, 1-4-101, 1-4-102, 1-4-108
= स्पृश् + ति 1-3-3, 1-3-9
= स्पृश् + त् 3-4-100
= स्पृश् + च्लि + त् 3-1-43. 7-2-10 blocks 7-2-35
= स्पृश् + क्स + त् 3-1-45. Note: Since “क्स” is a कित्-प्रत्ययः, 1-1-5 stops 7-3-86. Also 6-1-59 does not apply.
= स्पृश् + स + त् 1-3-8, 1-3-9
= अट् स्पृश् + स + त् 6-4-71, 1-1-46
= अ स्पृश् + स + त् 1-3-3, 1-3-9
= अ स्पृष् + स + त् 8-2-36
= अ स्पृक् + स + त् 8-2-41
= अस्पृक्षत् 8-3-59

Thus there are three optional forms अस्प्राक्षीत्/अस्पार्क्षीत्/अस्पृक्षत्।