Table of Contents

<<6-1-57 —- 6-1-59>>

6-1-58 सृजिदृशोर् ज्ञल्यम् अकिति

प्रथमावृत्तिः

TBD.

काशिका

सृज विसर्गे, दृशिर् प्रेक्षणे इत्येतयोः धात्वोः ज्ञलादावकिति प्रत्यये परतः अम् आगमो भवति। स्रष्टा। स्रष्टुम्। स्रष्टव्यम्। द्रष्टा। द्रष्टुम्। द्रष्टव्यम्। लघूपधगुणापवादो ऽयम् अमागमः। अस्राक्षीत्। अद्राक्षीत्। सिचि वृद्धिः अमि कृते भवति, पूर्वं तु बाध्यते। ज्ञलि इति किम्? सर्जनम्। दर्शनम्। अकिति इति किम्? सृष्टः। दृष्टः। धातोः स्वरूपग्रहणे तत्प्रतये कार्यविज्ञानादिह न भवति, रज्जुसृड्भ्याम्, देवदृग्भ्याम् इति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

647

बालमनोरमा

238 इडभावपक्षे `अनुदात्तस्य' इति अमागमविकल्पे प्राप्ते– सृजिदृशोः। अम्-अकिति इति च्छेदः। नित्यार्थमिदम्। दद्रष्ठेति। ददृश् थ इति स्थिते इडभावपक्षे अमागमे ऋकारस्य यणि व्रश्चादिना शस्य षत्वे थस्य ष्टुत्वेन ठ इति भावः। इट्पक्षे त्वाह- - ददर्शिथेति। अझलादित्वादम् नेति भावः। द्रष्टेति। तासि अमागमे शस्य षत्वे तकारस्य ष्टुत्वेन टकार इति भावः। द्रक्ष्यतीति। अमागमे शस्य षत्वे `षढो'रिति कत्वे सस्य ष इति भावः। पश्यतु। अपश्यत्। पश्येत्। आशीर्लिङि आह–दृश्यादिति। अझलादित्वादम् नेति भावः। लुङि विशेषमाह– इरित्त्वादङ् वेति। अत्र अङ्पक्षे गुणनिषेधे प्राप्ते–

तत्त्वबोधिनी

210 झलि किम् ?। ससर्ज। ददर्श। अकितीति किम् ?। सृष्टः। सृष्टवान्। दृष्टः। दृष्टवान्।

Satishji's सूत्र-सूचिः

वृत्ति: अनयोरमागमः स्याज्झलादावकिति । When followed by a अकित् (does not have ककार: as a इत्) affix which begins with a झल् letter, the verbal root √सृज् (सृजँ विसर्गे ४. ७५, ६. १५०) as well as √दृश् (दृशिँर् प्रेक्षणे १. ११४३) gets the augment अम्।

गीतासु उदाहरणम् – द्रक्ष्यसि derived from √दृश् (दृशिँर् प्रेक्षणे १. ११४३). विवक्षा is लृँट्, कर्तरि-प्रयोगः, मध्यम-पुरुषः, एकवचनम्।
येन भूतान्यशेषेण द्रक्ष्यस्यात्मन्यथो मयि || 4-35||

दृश् + लृँट् 6-1-65, 3-3-13
= दृश् + ल् 1-3-2, 1-3-3, 1-3-9
= दृश् + सिप् 3-4-78, 1-4-10 , 1-4-102, 1-4-105
= दृश् + सि 1-3-3, 1-3-9
= दृश् + स्य + सि 3-1-33. Note: 7-2-10 stops 7-2-35
= दृ अम् श् + स्य + सि 6-1-58, 1-1-47
= दृ अ श् + स्य + सि 1-3-3, 1-3-9
= द्र श् + स्य + सि 6-1-77
= द्र ष् + स्य + सि 8-2-36
= द्र क् + स्य + सि 8-2-41
= द्र क् + ष्य + सि 8-3-59
= द्रक्ष्यसि