TBD.
आदेच उपदेशे 6-1-45 इति वर्तते। मीञ् हिंसायाम्, डुमिञ् प्रक्षेपणे, दीङ् क्षये इत्येतेषं धातूनां ल्यपि विषये, चकारादेचश्च विषये उपदेशे एव प्राक् प्रत्ययोत्पत्तेः अलो ऽन्यस्य स्थाने आकारादेशो भवति। प्रमाता। प्रमातव्यम्। प्रमातुम्। प्रमाय। निमाता। निमातव्यम्। निमातुम्। निमाय। उपदाता। उपदातव्यम्। उपदातुम्। उपदाय। उपदेशे एव आत्वविधानादिवर्णान्तलक्षणः प्रत्ययो न भवति। आकारलक्षणश्च भवति, उपदायो वर्तते। ईषदुपदानम् इति घञ्युचौ भवतः।
TBD.
641 एषामात्वं स्याल्ल्यपि चादशित्येज्निमित्ते. दाता. दास्यति. (स्थाघ्वोरित्त्वे दीङः प्रतिषेधः). अदास्त.. डीङ् विहायसा गतौ.. 16.. डीयते. डिड्ये. डयिता.. पीङ् पाने.. 17.. पीयते. पेता. अपेष्ट.. माङ् माने.. 18.. मायते. ममे.. जनी प्रादुर्भावे.. 19..
337 मीनातिमिनोति। `आदेच उपदेशेऽशिती'त्यताअदित्यनुवर्तते। तदाह– एषामात्त्वं स्याल्ल्यपीति। चकारात् एचः, अशितीति परनिमित्तं समुच्चीयते। तत्र `एचट इत्यनन्तरं `निमित्ते' इति शेषः। एज्निमित्ते अशिति प्रत्यये च परे इति फलितम्। तदाह– अशित्येज्निमित्ते इति। `इति समुच्चीयते' इति शेषः। लुङ्याह— अदास्तेति। इह आत्त्वे कृते घुत्वे सत्यपि स्थाध्वोरिच्चेति न भवति, `स्थाध्वोरित्त्वे दीङः प्रतिषेधः' इति घुसंज्ञासूत्रस्थभाष्यपठितवात्र्तकादिति भावः। धीङ् आधारे इति। आधारः– आधारणम्। स्थापनमिति यावत्। लीङ् श्लेषणे इति। लीयते। लिल्ये।लिल्यिषे। [लिल्यिढ्वे। लिल्यिध्वे]।
293 मीनाति। मीञ् हिंसायाम्। डुमिञ् प्रक्षेपणे। प्रमाय। उपदाय। प्रमातव्यम्। उपदातव्य्। एज्निमित्त इति विषयसप्तमी। तेन आदावात्वं पश्चाद्धञ्। `आतो यु'गिति युक्। उपदाय इति सिध्यति। अन्यथा एरचि कृते तत आत्वे उपदा इति स्यात्। अदास्तेति। `दीङः प्रतिषेधः `स्थाध्वोरित्त्वेट इति न घुत्वमित्यदितेति रूपं न भवतीत्येके। अन्ये तु `स्थाध्वोरिच्चे'त्येतत्तु न भवति, दीङोऽनुकरणे दारूपाऽसंभवेनाऽघुत्वात्। अत एव प्रनिदातेत्यादौ `नेर्गदे'ति णत्वम् [अपि] न भवतीत्याहुः अयं भावः– `द अवखण्डने' इत्यादेर्दारूपत्वं संभवति। `आदेच उपदेशे' इत्यस्याऽनैमित्तिकत्वात्।दीङस्तु एज्निमित्तप्रत्ययविषये आत्वं, दा इत्यनुकरणे एज्निमित्तस्याऽभावित्वान्न घुत्वम्। एवं च घुप्रकृतित्वमपि नास्तीति णत्वस्याऽप्रसक्तिरिति। डीङ्। डीनः। डीनवान्। स्वादिषु पाठसामथ्र्यान्निष्ठायामिण्न। इटि हि सति व्यवधानात्। `ओदितश्चे'ति नत्वं नस्यादिति। स्वादिषु पाठसमाथ्र्यादिड्व्यवधानेऽपि णत्वमस्त्विति न शङ्क्यम्, इष्टानुरोधात्। डयति इति प्रयोगस्तु भौवादिकस्य। `निष्ठा शीङ्' इत्यत्र निष्ठेति योगविभागादकत्त्वे गुण इत्याहुः। मीङ् हिंसायाम्। मीञिति क्र्य#आदौ। प्राणवियोग इति। मीयते। प्राणैर्वियुज्यत इत्यर्थः। लीङ्। ली श्लेषण इति क्र्यादौ।
TBD.