Table of Contents

<<6-1-48 —- 6-1-50>>

6-1-49 सिध्यतेरपारलौकिके

प्रथमावृत्तिः

TBD.

काशिका

णौ इत्यनुवर्तते। षिधु हिंसासम्राध्योः इत्यस्य धातोः अपारलौकिके ऽर्थे वर्तमानस्य एचः स्थाने णौ परतः आकारादेशो भवति। अन्नं साधयति। ग्रामं साधयति। अपारलौकिके इति किम्? तपस्तापसं सेधयति। स्वान्येवैनं कर्माणि सेधयन्ति। अत्र हि सिध्यतिः पारलौकिके ज्ञानविशेषे वर्तते। तापसः सिध्यति ज्ञानविशेषमासादयति, तं तपः प्रयुङ्क्ते। स च ज्ञानविशेषः उत्पन्नः परलोके जन्मान्तरे फलम् अभ्युदयलक्षणम् उपसंहरन् परलोकप्रयोजनो भवति। इह कस्मान् न भवति, अन्नं साधयति ब्राह्मनेभ्यो दास्यामि इति? सिध्यते रत्रार्थो निष्पत्तिः। तस्याः प्रयोजनम् अन्नम्। तस्य यद् दानं तत् पारलौकिकम्, न पुनः सिद्धिरेव इति न आत्वं पर्युदस्यते। सक्षात् परलोकप्रयोजने च सिध्यर्थे कृतवकाशं वचनम् एवं विषयं न अवगाहते। सिध्यतेः इति श्यना निर्देशः, षिध गत्याम् इत्यस्य भौवादिकस्य निवृत्त्यर्थः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

373 सिध्यतेरपार। श्यना निर्देशाद्भौवादिकस्याऽग्रहणम्। तत्त्वं निश्चिनोतीति। तत्त्वनिश्चयश्चात्मविषयकः। स च परलोके उपयुज्यते।

Satishji's सूत्र-सूचिः

TBD.