Table of Contents

<<6-1-44 —- 6-1-46>>

6-1-45 आदेच उपदेशे ऽशिति

प्रथमावृत्तिः

TBD.

काशिका

धातोः इति वर्तते। एजन्तो यो धातुरुपदेशे तस्य अकारादेशो भवति, शिति तु प्रत्यये न भवति। ग्लै ग्लाता। ग्लातुम्। ग्लातव्यम्। शो निशाता। निशातुम्। निशातव्यम्। एचः इति किम्? कर्ता। हर्ता। उपदेशे इति किम्? चेता। स्तोता। अशिति इति किम्? ग्लायति। म्लायति। कथं जग्ले, मम्ले? न एवं विज्ञायते, शकार इद् यस्य सो ऽयं शितिति, किं तर्हि, श एव इत् शित्। तत्र यस्मिन् विधिस्तदादावल्ग्रहणे इति शिदादौ प्रत्यये प्रतिषेधः। एश् शकारान्तो भवति। अशिति इति प्रसज्यप्रतिषेधो ऽयम्, तेन एतदात्त्वम् अनैमित्तिकं प्रागेव प्रत्ययोत्पत्तेर् भवति इति, सुग्लः, सुम्लः इति आतश्चोपसर्गे 3-1-136 इति कप्रत्ययः, सुग्लानः, सुम्लानः इति आतो युच् 3-3-128 इत्येवम् आदि सिद्धम् भवति इति। आकाराधिकारस्त्वयं नित्यं सम्यतेः 6-1-57 इति यावत्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

495 उपदेशे एजन्तस्य धातोरात्वं न तु शिति. जग्लौ. ग्लाता. ग्लास्यति. ग्लायतु. अग्लायत्. ग्लायेत्..

बालमनोरमा

207 आदेच। एजन्तस्य धातोरिति। `लिटि धातो'रित्यतो धातोरित्यनुवृत्तमेचा विशेष्यते, तदन्तविधिरिति बावः। न तु शितीति। श् चासौ इच्चेति कर्मधारयात्सप्तमी, प्रत्ययविशेषणत्वात्तदादिविधिः, इत्संज्ञकशकारादौ प्रत्यये परे इति लभ्यते। `ल्यपि च' `न व्यो लिटी'त्यादिपूर्वोत्तरसूत्राणां प्रत्ययेष्वेव प्रवृत्त्या `प्रत्यये' इति विशेष्यलाभः। `अशिती'ति न पर्युदासः। तथा सति शिद्भिन्ने प्रत्यये परे इत्यर्थः स्यात्। ततश्च `सुग्ल' इत्यत्र ग्लैघाटोः `आतश्चोपसर्गे' इति कप्रत्ययो न स्यात्, कप्रत्ययनिमित्तमात्त्वम्, आदन्तात्प्रत्यय इत्यन्योन्याश्रयात्। `शिति ने'ति प्रसज्यप्रतिषेधे तु आत्त्वस्य अनैमित्तिकतया कप्रत्ययनिमित्तकत्वाऽभावात् प्रथमात्त्वे कृते कप्रत्ययः सूपपादः। `शिती'ति बहुव्रीह्राश्रयणे ग्लैधातोर्भावे लिटि `भावकर्मणो'रिति तङि एशि आत्त्वे आतो लोपे `जग्ले' इति न सिध्येत्, एशः शित्त्वेन तस्मिन्परे आत्त्वस्य निषेधात्। अतः कर्मधारयमाश्रित्य इत्संज्ञकशकारादौ प्रत्यये परे नेत्यर्थ आश्रितः। एवं च पर्युदासेऽपि न क्षतिः। इत्संज्ञकशकारादिभिन्नप्रत्यये विवक्षिते इत्याश्रयणेन `सुग्ल' इत्यत्र कप्रत्ययात्प्रागेव आत्त्वोपपत्तेः। उपदेशे किम् ?। चेता, स्तोता। दातोः किम् ?। गोभ्याम्। `गमेर्डो'रिति डोप्रत्ययोपदेशात् उपदेशे एच् तदन्तत्वाद्गो इत्यस्य प्राप्तिः। न च मेङादीनामुपदेशे एजन्तत्वाऽभावात्कथमात्त्वमिति न शङ्क्यम्, `उदीचां माङः' इति निर्देशेन `नानुबन्धकृतमनेजन्तत्व'मिति ज्ञापनादित्यास्तां तावत्।

तत्त्वबोधिनी

179 आदेच उपदेशेऽशिति। `लिटि धातो'रित्यनुवृत्तमेचा विशेष्यते। तदाह– एजन्तस्य धातोरिति। उपदेशे किम् ?। चेता। स्तोता। ननु लाक्षणिकत्वादेवाऽत्र न भविष्यतीति चेत्। अत्राहुः वर्णग्रहणे लक्षणप्रतिपदोक्तपरिभाषा नाश्रीयत इति ज्ञापनार्थमुपदेशग्रहणम्। तेन `क्रीङ्जीनां णौ' इति कृतात्वे क्रापयीत्यादौ पुक् सिध्यतीति मनोरमाकृत्। धातोः किम् ?। गोभ्याम्। नौभ्याम्। अस्ति ह्रत्रापि `गमेर्डोः' `ग्लानुदिभ्यां डौ' रित्युपदेशे एच्। `अशिती'ति प्रसज्यप्रतिषेध इत्याह— न तु शितीति। पर्युदासे तु जग्ले मग्ले इत्यादौ `द्विर्वचनेऽची'ति निषेधादात्वं न स्यात्, अभ्यासे इकारश्च श्रूयेत। किं च `सुग्ल' इत्यत्र `आतश्चोपसर्गे' इति कः, `सुग्ले'त्यत्र `आतश्चोपसर्गे' इति रिउआयामङ्, `सुग्लान' इत्यत्र `आतो युजि'ति युज्न स्यात्। प्रत्ययनिमित्तं ह्रात्वम्, आदन्ताच्च प्रत्यय इत्यन्योन्याश्रयात्। प्रसज्यप्रतिषेधे तु न कोऽपि दोषः। `ह्वावामश्चे'ति सूत्रेण कबाधनार्थं पुनरण्विधानं च प्रतिषेधपक्षे ज्ञापकम्। तदाहुः— अनैमित्तिकमात्वं, शिति तु प्रतिषेध इति। नन्वेमपि एशः शित्त्वाकाले मम्ले इत्यादि न सिध्यतीति चेत्। अत्राहुः—- यदि त#उ शितीति बहव्रीहिः स्यात्तदाऽत्र स्यादेव दोषः। किं तु क्रमधारयोऽयम्। तथा चाऽशितीत्यत्रेत्संज्ञकारादौ प्रत्यये परे नेत्यर्थः। धातुग्रहणाक्षिप्तस्य प्रत्ययस्य शितीति कर्मधारयेण विशेषणात्॥ विषयसप्तम्यां तु इत्संज्ञकशकारादिभिन्नप्रत्ययविषये आत्वमित्यर्थात्पर्युदासेऽपि न क्षतिरिति।

Satishji's सूत्र-सूचिः

TBD.