Table of Contents

<<6-1-50 —- 6-1-52>>

6-1-51 विभाषा लीयतेः

प्रथमावृत्तिः

TBD.

काशिका

ल्यपि इति वर्तते, आदेच उपदेशे इति च। लीङ् श्लेषणे इति दिवादिः। ली श्लेषणे इति क्र्यादिः। तयोः उभयोः अपि यका निर्देशः स्मर्यते। लीयतेर् धतोः ल्यपि च एचश्च विषये उपदेशे एव अलो ऽन्त्यस्य स्थाने विभाषा आकारादेशो भवति। विलता। विलातुम्। विलातव्यम्। विलाय। विलेता। विलेतुम्। विलेतव्यम्। विलीय। निमिमीलियं खलचोः प्रतिषेधो वक्तव्यः। ईषत् प्रमयः। प्रमयो वर्तते। ईषन्निमयः। निमयो वर्तते। ईषद् विलयः। विलयो वर्तते। अत्र तु लियो व्यवस्थितविभाषाविज्ञानात् सिद्धम्। एवं च प्रलम्भनशालीनीकरनयोश्च णौ नित्यमात्त्वं भवति, कस्त्वामुल्लापयते, श्येनो वर्तिकामुल्लापयते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

338 विभाषा लीयतेः। ननु लीयतेरिति श्यना निर्देशात् `लीङ् श्लेषणे' इति स्नाविकरणस्य ग्रहणं न स्यादित्यत आह– यका निर्देश इति। `सार्वधातुके य'गिति विहितयका लीयतेरिति निर्देशः। स च श्यन्श्नान्तसाधारणः,यक उभयत्रापि साधारण्यादिति भावः। `मीनातिमिनोती'त्यतो ल्यपीति, `आदेचः' इत्यत आदिति, एच इति चाऽनुवर्तते। तदाह– लीलीङोरित्यादिना। स्वादय ओदित इति। धातुपाठपठितं गणसूत्रमिदम्। `षूङ् प्राणिप्रसवे' इत्यारभ्य व्रीङन्ता ओदित्कार्यभाज इत्यर्थः। निष्ठानत्वमिति। `ओदितश्चे'त्यनेनेति भावः। प्रीङ् प्रीताविति। प्रीतिस्तुष्टिः। `मुत्प्रीतिः प्रमदो हर्षः' इत्यमरः। एवं सत्यकर्मकः। यथा– फलमूलादिना हरिः प्रीयते। ह्मष्यतीत्यर्थः।यदा तु प्रीतिः तर्पणं, `प्रीञ् तर्पणे' इति क्रैयादिकात् क्तिनि प्रीतिशब्दनिष्पत्तः, तदा तु सकर्मकः। तदाह– सकर्मक इति। प्रीयते इति। तर्पयतीत्यर्थः। अथ चत्वारः परस्मैपदिन इति। `दो अवखण्डने' इत्यन्ता इति भावः। शो तनूकरणे। अनिट्।

तत्त्वबोधिनी

294 यकेति। `सार्वधातुके य'गिति विहितेन। न तु श्यनेति। अन्यथा `लीङ' इत्येव ब्राऊयादिति भावः। यका निर्देशस्य फलमाह– लीलीङोरिति। ल्यपि– विलाय। विलीय। व्#ईङ्। वृणोत्यर्थो– वरणम्। वृञ्? वरण इति स्वादौ पठिष्यमाणत्वात्। `वरणे' इति वक्तव्ये वृणोत्यर्थ इति वचनं वैचित्र्यार्थम्। व्री वरण इति क्र्यादौ। माङ्। मायत इति। `घुमास्थे' तीत्तवं तु न, तत्राद्र्धधातुक इत्यधिकारात्।

Satishji's सूत्र-सूचिः

TBD.