TBD.
तस्मादतो ऽभ्यासाद् दीर्घीभूतादुत्तरस्य द्विहलो ऽङ्गस्य नुडागमो भवति। आनङ्ग, आनङ्गतुः, आनङ्गुः। अनञ्ज, आनञ्जतुः, आनञ्जुः। द्विहलः इति किम्? आट, आटतुः, आटुः। ऋकारैकदेशो रेफो हल्ग्रहणेन गृह्यते, तेन इह अपि द्विहलो ऽङ्गस्य नुडागमो भवति, आनृधतुः, आनृधुः।
TBD.
466 द्विहलो धातोर्दीर्घीभूतात्परस्य नुट् स्यात्. आनर्च. आनर्चतुः. अर्चिता. अर्चिष्यति. अर्चतु. आर्चत्. अर्चेत्. अर्च्यात्. आर्चीत्. आर्चिष्यत्.. व्रज गतौ.. 10.. व्रजति. वव्राज. व्रजिता. व्रजिष्यति. व्रजतु. अव्रजत्. व्रजेत्. व्रज्यात्..
132 लिटि णलि द्वित्वे हलादिशेषे अत आदेरित्यभ्यासाकारस्य दीर्घे आ अर्देति स्थिते–तस्मान्नुट्। द्वौ हलौ यस्य तस्येति विग्रहः। तच्छब्देन `अत आदे'रिति कृतदीर्घः परामृश्यते। तदाह—दीर्घीभूतादिति। टकार इत्। उच्चारणार्थः। टित्त्वादाद्यवयवः। तदाह– आनर्देति। आर्दीदिति। `इट ईटी'ति सिज्लोपः। नर्देत्यादि स्पष्टम्। कर्देति। कुत्सितशब्देन कुत्सितविशेषो विवक्षित इत्याह– कौक्ष इति। कुक्षिभवे इत्यर्थः। खर्देति। दन्दशूकः– दंशनस्वभावः सर्पः। `दन्दशूको बिलेशयः' इत्यमरः। ननु सर्पस्य क्रियात्वाऽभावात्कथं धात्वर्थत्वमित्यत आह–दंशनेति। अति अदीति। इदित्त्वान्नुम्। तदाह–अन्ततीति। आनन्तेति। `अत आदे'रिति दीर्घः। `तस्मान्नुड् द्विहलः' इति नुट्। एवम्-अन्दति। आनन्देति। नुट्। आन्दीत्। इदीति। परमै\उfffदार्यम् = परमे\उfffदारीभवनम्। इन्दतीति। इदित्त्वान्नुम्। इन्दांचकारेति। `इजादेश्चे'त्याम्। बिदीति। इदित्त्वान्नुमित्याह–बिन्दतीति। नन्ववयवस्य अक्रियारूपत्वातक्थं धात्वर्थमित्यत आह– अवयवं करोतीत्यर्थ इति। अबिन्दीत्। अबिन्दिष्टामित्यादि। पाटान्तमिति। पवर्गीयचतुर्थादिरित्यर्थः। गडीति। वदनैकदेश इति। तत्क्रियायामित्यर्थः। गण्डति। अगण्डीत्। अन्तत्यादय इति। अति अदि बन्धने, इदि परमै\उfffदार्ये, बिदि अवयवे, गडि वदनैकदेशे इति पञ्च धातवस्तिङ्?प्रकृतयो न भवन्तीति काश्यपमतमित्यर्थः। अन्य इति। काश्यपादन्ये मुनयस्तिङमपि एभ्य् इच्छन्तीत्यर्थः। णिदीति। इदित्त्वान्नुम्। णोपदेशत्वाण्णस्य नत्वम्। तदाह–निन्दतीति। प्रणिन्दतीति। `उपसर्गादसमासेऽपी'ति णत्वम्। टु नदीति। समृद्धिः–प्रजाप\उfffदाआदिसम्पत्तिः।
106 तस्मात्। तच्छब्देन कृतदीर्घाकारः परामृश्यत इत्याह– दीर्घीभूतादिति। खर्द [दन्दशूके] दन्दशूकस्य सर्पत्वात्तद्वाचित्वे धातुत्वं न सङ्गच्छत इत्याह- - दन्दशूकक्रियायामिति। दन्दशूककर्तृकायामित्यर्थः। आनन्तेति। इदित्त्वान्नुम्। तस्मान्नुड् द्विहलः इति नुट्। वदनैकदेश इति। तत्क्रियायामित्यर्थः।
वृत्तिः द्विहलो धातोर्दीर्घीभूतादकारात्परस्य नुट् स्यात्। A नुट् augment comes to a term that is preceded by an elongated (by 7-4-70) अकार: of a verbal root which has two consonants.
(Note: The use of तस्मात् in this सूत्रम् is similar to that in 6-1-103 तस्माच्छसो नः पुंसि।)
उदाहरणम् – आनर्चु: (अर्चँ पूजायाम् १. २३२, लिँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, बहुवचनम्)।
अर्च् + लिँट् 3-2-115
= अर्च् + ल् 1-3-2, 1-3-3, 1-3-9
= अर्च् + झि 3-4-78, 1-4-101, 1-4-102, 1-4-108
= अर्च् + उस् 3-4-82, 1-1-55. 1-3-4 prevents the ending सकार: of “उस्” from getting the इत्-सञ्ज्ञा।
= अर्च् अर्च् + उस् 6-1-8
= आर्च् अर्च् + उस् 7-4-70
= आ अर्च् + उस् 7-4-60
= आ नुट् अर्च् + उस् 7-4-71
= आ न् अर्च् + उस् 1-3-3, 1-3-9. The उकार: in नुट् is for pronunciation only (उच्चारणार्थ:)।
= आनर्चु: 8-2-66, 8-3-15