TBD.
णौ च संश्चङोः 6-1-31 इति वर्तते। सन्परे चङ्परे च नौ परतो ह्वः संप्रसारणं भवति। जुहावयिषति, जुहावयिष्तः, जुहावयिषन्ति। अजूहवत्, अजूहवताम्, अजूहवन्। संप्रसारणस्य बलीयस्त्वात् शाच्छासाह्वाव्यावेपां युक् 7-3-37 इति प्रागेव युक् न भवति। सम्प्रसारणम् इति वर्तमाने पुनः सम्प्रसारणम् इत्युक्तं विभाषा इत्यस्य निवृत्त्यर्थम्। ह्वः सम्प्रसारणम् अभ्यस्तस्य इत्येकयोगेन सिद्धे पृथग्योगकरनम् अनभ्यस्तनिमित्तप्रत्ययव्यवधाने सम्प्रसारणाभावज्ञापनार्थम्। ह्वयकम् इच्छति ह्वायकीयते। ह्वायकीयतेः सन् जिह्वायकीयिषति।
TBD.
–
414 ह्वः संप्रसारणम्। ह्वेञः कृतात्त्वस्य `ह्व' इति षष्ठी। `णौ च संश्चङो'रित्यनुवृत्तिमभिप्रेत्य आह– सन्पर इत्यादि। अजूहवदिति। ह्वा इ अ त् इति स्थिते `संप्रसारणं तदाश्रयं च कार्यं बलव'दिति वचनात्कृते संप्रसारणे पूर्वरूपे च `हु' इत्यस्य द्वित्वे उत्तरखण्डस्य वृद्ध्यावादेशयोः कृतयोरुपधाह्यस्वे सन्वत्त्वदीर्घाविति भावः। अत्र कृते संप्रसारणे पूर्वरूपे च ह्वारूपाऽभावान्न युक्। पाधातोर्णौ युगागमे पायि इत्यस्माल्लुङि चङि द्वित्वादौ अपीपय् अ त् इति स्थिते -
362 ह्वः संप्र। `णौ च संश्चङो'रिति वर्तते। तदाह–सन्पर इत्यादि। अजूहवत्।अजुहाविति। `काण्यादीनां वे'ति ह्यस्वविकल्पः।
TBD.