Table of Contents

<<6-1-32 —- 6-1-34>>

6-1-33 अभ्यस्तस्य च

प्रथमावृत्तिः

TBD.

काशिका

ह्वः इति वर्तते, तदभ्यस्तस्य इत्यनेन व्यधिकरणम्। अभ्यस्तस्य यो ह्वयतिः। कश्च अभ्यस्तस्य ह्वयतिः? कारणम्। तेन अभ्यस्तकारणस्य ह्वयतिः प्रागेव द्विर्वचनात् सम्प्रसारणं भवति। जुहाव। जुहूयते। जुहूषति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

248 अभ्यस्त स्य च। `ह्वः संप्रसारण'मित्यनुवर्तते। `ह्व' इति कृतात्त्वस्य `हवे' इत्यस्य षष्ठ\उfffद्न्तम्। तथा च अभ्यस्तीभूतस्य ह्वेञः संप्रसारणे कृते पूर्वखण्डस्याऽभ्यासस्य `न संप्रसारणे संप्रसारण'मिति निषेधः स्यादित्यत आह- अभ्यस्तीभविष्यत इति। ननु यद्यभ्यस्तीभविष्यतो ह्वेञः संप्रसारणं तर्हि द्वित्वं बाधित्वा परत्वात्संप्रसारणे सति `विप्रतिषेधे यद्बाधितं तद्बाधित'मिति न्यायाद्द्वित्वं न स्यादित्यत आह–ततो द्वित्वमिति। संप्रसारणानन्तरं द्वित्वमित्यर्थः, पुनः प्रसङ्गविज्ञानादिति भावः। तथा च णलि आत्त्वे कृते संप्रसारणे पररूपे `हु' इत्यस्य द्वित्वे `कुहोश्चु'रिति चुत्वे तस्य जश्त्वे `अचो ञ्णिती'ति वृद्धौ अवादेशे परिनिष्ठितं रूपमाह–जुहावेति। जुहुवतुरिति। अतुसि आत्त्वे आल्लोपं बाधित्वा अन्तरङ्गत्वात् `अभ्यस्तस्य चे'त्यनेन संप्रसारणे `वार्णादाङ्गं बलीयः' इत्यस्याऽनित्यतयाऽन्तरङ्गत्वात्पूर्वरूपे कृते द्वित्वे उवङिति भावः। यद्यपि किति `वचिस्वपी'ति संप्रसारणेऽपि सिद्धमिदम्, तथापि अकिति आवश्यकमभ्यस्तस्य चेत्येत न्न्याय्यत्वादिहापि भवतीति बोध्यम्। एवं जुहुवुः। भारद्वाजनियमात्थलि वेट्। तदाह–जुहोथ जुहविथेति। जुहुवथुः जुहुव। जुहाव जुहव जुहुविव जुहुविम। क्रादिनियमादिट्। जुहुवे जुहुवाते जुहुविरे। जुहुविषे जुहुवाथे जुहुविढ्वे जुहुविध्वे। जुहुवे जुहुविवहे जुहुविमहे। ह्वातेति। तासि आत्त्वम्। ह्वास्यति ह्वास्यते। ह्वयतु ह्वयताम्। अह्वयत् अह्वयत। ह्वयेत् ह्वयेत। हूयादिति। आशीर्लिङि आत्त्वे यासुटि कित्त्वात् `वचिस्वपी'ति संप्रसारणे पूर्वरूपे `अकृत्सार्वधातुकयो'रिति दीर्घ इति भावः। ह्वासीष्टेति। आशीर्लिङि सीयुटि रूपम्। लुङि विशेषमाह–

तत्त्वबोधिनी

219 अभ्यस्तस्य चेति। पूर्वयोगस्तु `णौ च संश्चङो'र्विषये प्रवर्तते। जुहावयिषति। अजूहवत्। अभ्यस्तीभविष्यतो ह्वेञ इति। अभ्यस्तनिमित्ते प्रत्यये परे द्विर्वचनात्प्रागेव ह्वेञः संप्रसारणमिति फलितोऽर्थः। अभ्यस्तमस्यास्तीति अभ्यस्तः = सनादिः, तस्य यो ह्वेञ् = तत्प्रकृतिभूतस्तस्येत्यादिव्याख्यानस्य स्वीकारात्। तेन जिह्वायकमात्मन इच्छति जिह्वायकीषतीत्यत्र ह्वेञः संप्रसारणं न भवति, ण्वुलो द्वित्वनिमित्तत्वाऽभावात्। अत एव णिचो द्वित्वनिमित्तत्वं नेति `ह्वः संप्रसारण'मिति योगविभागः क्रियते। एतच्च आकरे स्पष्टम्।

Satishji's सूत्र-सूचिः

TBD.