TBD.
शा धा सा ह्वा व्या वे पा इत्येतेषम् अङ्गानां युगागमो भवति णौ परतः। शा निशाययति। छा अवच्छाययति। सा अवसाययति। ह्वा ह्वाययति। व्या संव्याययति। वे वाययस्ति। पा पाययति। पाग्रहणे पै ओवै शोषणे इत्यस्य अपि इह ग्रहणम् इच्छन्ति। पा रक्षणे इत्यस्य लुग्विकरणत्वान् न भवति। लुगागमस्तु तस्य वक्तव्यः। पालयति। धूञ्प्रीञोर् लुग्वक्तव्यः। धूनयति। प्रीणयति। एते ऽपि पूर्वान्ता एव क्रियन्ते, तेन न्यशीशयत्, अपीपलत्, अदूधुनत्, अपिप्रिणतिति उपधाह्रस्वत्वं भवति। शाछासाह्वाव्यावेपां कृतात्वानां ग्रहणं पुकः प्राप्तिमाख्यातुम्। किम् एतस्य आख्याने प्रयोजनम्? एतस्मिन् प्रकरणे लक्षणप्रतिपदोक्तपरिभाषा न अस्ति इत्युपदिश्यते। तेन अध्यापयति, जापयति इत्येवम् आदि सिद्धं भवति।
TBD.
–
413 शाच्छासा। `शो तनूकरणे, `छो छेदने', `षो अन्तकर्मणिट, `ह्वेञ् स्पर्धायां शब्दे च', `व्येञ् संवरणे', एषां कृतात्त्वनिर्देशः। `वेञ् तन्तुसंताने' `पा पाने भ्वादिः। एषां द्वन्द्वात्षष्ठीबहुवचनात्। णौ परे इति। शे,फूरणमिदम्. आदन्तलक्षणपुकोऽपवादः। युकि ककार इत्। उकार उच्चारणार्थः। कित्त्वादन्तागमः। अत्र `लुग्विकरणाऽलुग्विकरणयोरलुग्विकरणस्य ग्रहण'मिति वचनात् `पा रक्षणे' इति न गृह्रते। तस्यतु पालयतीति रूपमनुपदमेव वक्ष्यति। शाययतीति। लुङि अशीशयत्। छाययतीति। अचिच्छयत्। साययतीति। असीषयत्। ह्वाययतीति। लुङि तु विशेषो वक्ष्यते। व्याययतीति। अविव्ययत्। वाययति। अवीवयत्। पाययति। लुङि तु विशेषो वक्ष्यते।
361 शास्छासा। `शो तनूकरणे'। `छो छेदने'। `षोऽन्तकर्मणि'। `ह्?वेञ् स्पर्धायाम्'। `व्येञ्? संवरणे'। `वेञ् तन्तुसंताने'। पा पाने'। `लुग्विकरमाऽलुग्विकरणे'ति परिभाषया `पा रक्षणे' इति नेह गृह्रते। तस्य तु पालयतीति रूपमनुपदं वक्ष्यति। शाययति। अशीशयत्। छाययति। अचिच्छयत्। साययति। असीषयत्। ह्वाययति। अविह्वयत्। व्याययति। अविव्ययत्। वाययति। अवीवयत्। पाययति। अपीपयत्। इह शाच्छासादीनां कृतात्वानां निर्देशः पुकः प्रा\उfffद्प्त ध्वनयितुम्। तत्प्रयोजनं त्वस्मिन्प्रकरणे लक्षमप्रतिपदोक्तपरिभाषाया अप्रवृत्तिः। तेन ध्यापयति, क्रापयतीत्यादि सिद्धम्।
TBD.