TBD.
विभाषा श्वेः 6-1-30 इति वर्तते। सन्परे चङ्परे च णौ परतः श्वयतेर् धातोः विभाषा सम्प्रसारणं भवति। शुशावयिषति। चङि अशूशवत्, अशिश्वयत्। सम्प्रसारणं सम्प्रसारणाश्रयं च बलीयो भवति इति वचनादन्तरङ्गम् अपि वृद्ध्यादिकं सम्प्रसारणेन बाध्यते। कृते तु संप्रसारणे वृद्धिरावादेशश्च। ततः ओः पुयण्ज्यपरे 7-4-80 इत्येतद् वचनं ज्ञापकं णौ कृतस्थानिवद्भावस्य, इति स्थानिवद्भावात् शुशब्दो द्विरुच्यते।
TBD.
–
407 णौ च संश्चङोः। `विभाषा \उfffदो' रिति सूत्रमनुवर्तते। `ष्यङ संप्रसारण'मिति चातदाह– सन्तपर इत्यादिना। नन्वन्तरङ्गत्वात्संप्रसारणात्पूर्वं वृद्ध्यायादेशयोः कृतयोः पश्चात्संप्रसारणे पूर्वरूपे अशीशवदिति स्यात्, अशूशवदिति न स्यादित्यत आह- - संप्रसारण तदाश्रयं चेति। इदं वचनं `लिट\उfffद्भ्यासस्ये'ति सूत्रभाष्ये स्थितम्। एवं च अ\उfffदिआ इ अत् इत्यत्र वृद्ध्यायादेशाभ्यां प्रागेव वकारस्य संप्रसारणमुकार इति फलितम्। पूर्वरूपमिति। ततश्च शु इत्यस्य द्वित्वे उत्तरखण्डस्य णिचमाश्रित्य वृद्ध्यावादेशयोरुपधाह्यस्वे सन्वत्त्वविषयत्वादभ्यासदीर्घे फलितमाह- - अशूशवदिति। संप्रसारणाऽभावपक्षे अशि\उfffदायदित्यत्र अभ्यास्दीर्घमाशङ्क्य आह- - अलघुत्वादिति। संयोगापरकत्वादिति भावः। अवपूर्वात्स्तम्भेण्र्यन्तादवष्टम्भयतीत्यादि। `अवाच्चालम्बनादविदूर्ययो'रिति षत्वम्। चङि अवातस्तम्भदित्यत्र षत्वे प्राप्ते–
356 णौ च। `विभाषा \उfffदो'रित्यनुवर्तते। `संश्चङो'रिति णावित्यस्य विशेषणं। `ह्वः संप्रसारण'मित्यतः संप्रसारणमित्यनुवर्तत एवेत्याह– सन्परे चङ्परे इति। वचनादिति। इयं च परिभाषा `लिट\उfffद्भ्यासस्योभयेषा'मित्यत्र वच्यादीनां ग्रह्रादीनामनुवृत्त्यैवेष्टसिद्धावुभयेषांग्रहणसामथ्र्याल्लभ्यते। अन्यथा वव्रश्चेत्यत्र हलादिःशेषे कृते वस्य संप्रसारणं स्यादित्याहुः। स्तन्भुसिव।
TBD.