TBD.
सनि इति वर्तते, इतिति च। उवर्णान्ताभ्यासस्य पवर्गे यणि जकारे च अवर्णपरे परतः इकारादेशो भवति सनि प्रत्यये परतः। पवर्गे अपरे पिपविषते। पिपावयिषति। बिभावयिषति। यण्यपरे यियविषति। यियावयिषति। रिरावयिषति। लिलावयिषति। ज्यपरे जु इति सौत्रो ऽयं धातुः। जिजावयिषति। एतदेव पुयण्ज्यपरे इति वचनं ज्ञापकम्, अद्विर्वचननिमित्ते ऽपि णौ स्थानिवद् भवति इति। ओः इति किम्? पापच्यतेः सन् पापचिषते। पुयण्जि इति किम्? अवतुतावयिषति। जुहावयिषति। अपरे। इति किम्? बुभूषति।
TBD.
704 सनि परे यदङ्गं तदवयवाभ्यासोकारस्य इत्स्यात् पवर्गयण्जकारेष्ववर्णपरेषु परतः.. अबीभवत्.. ष्ठा गतिनिवृत्तौ..
405 ओः पुयण्। `उ' इत्यस्य `ओ' रिति षष्ठी। `पुयण्जी'ति छेदः। पुश्च यण् च ज् चेति समाहारद्वन्द्वात्सप्तमी। अः परो यस्मादिति बहुव्रीहिः। `सन्यतः' इत्यस्मात्सनित्यनुवर्तते। अङ्गस्येत्यधिकृतम्। `अत्र लोपः' इत्यस्मादभ्यासस्येति, भृञामिदित्यस्मादिदिति चानुवर्तते। तदाह – सनि परे इत्यादिना। अबीभवदिति। भू इ अत् इति स्थिते द्वित्वे कार्ये णौ अच आदेशस्य निषेधाद्वृद्ध्यावादेशाभ्यां प्रागेव `भू'इत्यस्य द्वित्वे उत्तरखण्डस्य वृद्ध्यावादेशयोः कृतयोरुपधाह्यस्वेऽभ्यासेऽकाराऽभावेन `सन्यतः' इत्यस्याऽप्रवृत्त्या सन्वत्त्वादनेने इत्त्वे दीर्घ इति भावः। अपीपवदिति। पूङ्धातो रूपम्। मूङित्यस्माद्धातोरमीमवदिति रूपमित्यर्थः। अयीयवदिति। युधातो रूपम्. अरीरवदिति। रुधातो रूपम्। अलीलवदिति। लूञ्धातो रूपम्। अजीजवदिति। जुः सौत्रो दातुर्जुचङ्क्रम्येत्यत्र निर्दिष्टः। ननु भू भू इति द्वित्वोत्तरं वृद्ध्यावादेशयोः कृतयोरुपधाह्यस्वे तस्य स्थानिवत्त्वेन लघु परत्वाऽभावात्सन्वत्त्वाऽप्रसक्त्या कथमिहाभ्यासोवर्णस्य इत्त्वमिति चेन्न, आरम्भसामथ्र्यादेव स्थानिवत्त्वाऽप्रवृत्तेरिल्यम्।
354 ओः पुयण्जि। `पुयण्जी'ति समाहारद्वन्द्वात्सप्तम्येकवचनम्। `अपरे' इति बहुव्रीहिः। `अत्र लोपोऽभ्यासस्ये'त्यतोऽभ्यासस्येत्यनुवर्तते। `भृञामी'दित्यत इद्ग्रहणं, `सन्यतः' इत्यतः सनीति च, अङ्गस्येति तु अधिक्रियत एव। तदेतदभिप्रेत्याह— सनि परे यदङ्गमित्यादि। अपरे किम् ?। बुभूषति। पवर्गयण्जीति किम् ?। ऊर्णुनविषति। अबीभवदित्यादि। `भू सत्तायाम्'। `पूङ् पवने'। मृङ् बन्धने'। `यु मिश्रणादौ'। रु शब्दे'। `लूञ्छेदने'। `जु गतौ'। सौत्रोऽयं धातुः `जुचङ्क्रम्ये'त्यत्र निर्दिष्टः। ननु भू भू इति द्वित्वोत्तरं वृद्ध्यावादेशौ भवस्ततः कृतस्य `णौ चङी'ति ह्यस्वस्य स्थानिवद्भावेन लघु परत्वाऽभावात्सन्वद्भावाऽप्रवृत्त्याऽबीभवदित्यादावभ्यासोवर्णस्येत्वं दुर्लभमिति चेत्। अत्राहुः– आरम्भसामथ्र्यादेव न स्थानिवत्त्वमिति।
वृत्ति: सनि परे यदङ्गं तदवयवाभ्यासोकारस्य इत्स्यात् पवर्गयण्जकारेष्ववर्णपरेषु परतः । The उकारः of a reduplicate (अभ्यासः) belonging to a अङ्गम् which is followed by the affix “सन्”, takes इकारः as a substitute, provided the अभ्यासः is followed by either -
i) a letter of the पवर्गः which itself is followed by the अवर्णः (अकारः or आकारः) or
ii) a यण् letter which itself is followed by the अवर्णः (अकारः or आकारः) or
iii) a जकारः which itself is followed by the अवर्णः (अकारः or आकारः)।
उदाहरणम् – अबीभवत्/अबीभवत derived from √भू (भू सत्तायाम् १. १). विवक्षा is लुँङ्, कर्तरि प्रयोगः (हेतुमति), प्रथम-पुरुषः, एकवचनम्।
भू + णिच् 3-1-26
= भू इ 1-3-3, 1-3-7, 1-3-9
Note: As per the परिभाषा – णिच्यच आदेशो न स्याद् द्वित्वे कर्तव्ये, 7-2-115 (and 6-1-78) have to wait until reduplication is done.
“भू इ” gets the धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।
भू इ + लुँङ् 3-2-110
= भू इ + ल् 1-3-2, 1-3-3, 1-3-9
= भू इ + तिप् 3-4-78, 1-4-101, 1-4-102, 1-4-108, 1-3-78
= भू इ + ति 1-3-3, 1-3-9
= भू इ + त् 3-4-100
= भू इ + च्लि + त् 3-1-43
= भू इ + चङ् + त् 3-1-48
= भू इ + अ + त् 1-3-3, 1-3-7, 1-3-9
= भू भू इ + अ + त् 6-1-11
= भु भू इ + अ + त् 7-4-59
= बु भू इ + अ + त् 8-4-54
= बु भौ इ + अ + त् 7-2-115
= बु भाव् इ + अ + त् 6-1-78
= बु भव् इ + अ + त् 7-4-1
= बि भव् इ + अ + त् 7-4-80. Note: By 7-4-93 the operations on the अभ्यासः “बु” are carried out as if the affix “सन्” follows the अङ्गम्।
= बी भव् इ + अ + त् 7-4-94
= बी भव् + अ + त् 6-4-51
= अट् बीभव त् 6-4-71, 1-1-46
= अबीभवत् 1-3-3, 1-3-9
Note: In the absence of the परिभाषा – णिच्यच आदेशो न स्याद् द्वित्वे कर्तव्ये, we could have got the same form अबीभवत् without using 7-4-80. The fact that पाणिनिः has composed 7-4-80 gives us a hint as to the existence of the परिभाषा।
Similarly अबीभवत when a आत्मनेपदम् affix is used by 1-3-74.
While reduplication is yet to be done, a substitution shall not be made in the place of a vowel when followed by the affix णिच्।
Note: This परिभाषा only temporarily stops the substitution until reduplication is done. Once reduplication is done, the substitution does takes place.
उदाहरणम् – अनूनवत्/अनूनवत derived from √नु (णु स्तुतौ २. ३०). As per 6-1-65 णो नः, the beginning णकार: of the धातु: is replaced by a नकार:।
The विवक्षा is लुँङ्, कर्तरि प्रयोगः (हेतुमति), प्रथम-पुरुषः, एकवचनम्।
नु + णिच् 3-1-26
= नु इ 1-3-3, 1-3-7, 1-3-9
Note: As per the परिभाषा above, 7-2-115 (and 6-1-78) have to wait until reduplication is done.
“नु इ” gets the धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।
नु इ + लुँङ् 3-2-110
= नु इ + ल् 1-3-2, 1-3-3, 1-3-9
= नु इ + तिप् 3-4-78, 1-4-101, 1-4-102, 1-4-108, 1-3-78
= नु इ + ति 1-3-3, 1-3-9
= नु इ + त् 3-4-100
= नु इ + च्लि + त् 3-1-43
= नु इ + चङ् + त् 3-1-48
= नु इ + अ + त् 1-3-3, 1-3-7, 1-3-9
= नु नु इ + अ + त् 6-1-11
= नु नौ इ + अ + त् 7-2-115
= नु नाव् इ + अ + त् 6-1-78
= नु नव् इ + अ + त् 7-4-1
= नू नव् इ + अ + त् 7-4-94
= नू नव् + अ + त् 6-4-51
= अट् नूनव त् 6-4-71, 1-1-46
= अनूनवत् 1-3-3, 1-3-9
Similarly अनूनवत when a आत्मनेपदम् affix is used by 1-3-74.