TBD.
लिड्य्ङोः इति वर्तते, सम्प्रसरणम् इति च। लिटि यङि च श्वयतेर् धातोः विभाषा सम्प्रसारणं भवति। शुशाव, शिश्वाय। शुशुवतुः, शिश्वियतुः। यगि शोशूयते, शेश्वीयते। तदत्र यङि सम्प्रसारणम् अप्राप्तं विभाष विधीयते। लिटि तु किति यजादित्वात् नित्यं प्राप्तं, तत्र सर्वत्रविकल्पो भवति इत्येषा उभयत्रविभाषा। यदा च धातोर् न भवति तदा लिट्यभ्यासस्य उभयेषाम् 6-1-17 इत्यभ्यासस्य अपि न भवति।
TBD.
–
251 संप्रसारणमिति। `ष्यङ संप्रसारण''मित्यतस्तदनुवृत्तेरिति भावः। लिटि यङि चेति। `लिङ्यङो'रित्यनुवृत्तेरिति भावः। शुशावेति। णलि अभ्याससंप्रसारणं बाधित्वा द्वित्वात्प्रागेव परत्वादनेन संप्रसारणे कृते ततो द्वित्वे वृद्ध्यावादेशाविति भावः। अकित्त्वाद्वचिस्वपीत्यस्य नाऽत्र प्राप्तिः। तथा च लिट\उfffद्कित्स्वेकवचनेषु द्वित्वात्प्रागप्राप्तस्य संप्रसारणस्य विकल्पविधिः। `शुशुवतु'रित्यादिद्विवचनबहुवचनेषु तु द्वित्वात्प्राग्वचिसवपीति प्राप्तस्य संप्रसारणसय विकलपविधिः। तथा च उभयत्र विभाषेयम्। यङंशे त्वप्राप्तविभाषैवेयम्- - शोशूयते। शे\उfffदाईयते। तत्र णलि एतत्संप्रसारणाऽभावपक्षे `\उfffदाईत्यस्य द्वित्वानन्तरमभ्याससंप्रसारणे शु\उfffदाआय इति प्राप्ते आह– \उfffदायतेर्लिट\उfffद्भ्यासलक्षणप्रतिषेध इति। लिट\उfffद्भ्याससंप्रसारणस्य प्रतिषेधो वक्तव्य इत्यर्थः। तथा च `\उfffदिआ'इत्यभ्यासस्य संप्रसारणे पूर्वरूपे `अकृत्सार्वधातुकयो'रिति दीर्घ इति भावः। लुङि विशेषमाह– जृ?स्तन्भ्विति। तथा च अ\उfffदिआ अ त् इति स्थिते इयङि प्राप्ते–
222 विभाषा श्वेः। लिटि यङि चेति। `लिड\उfffद्ङोश्चे'ति पूर्वसूत्रमिहानुवर्तत इति भावः। उभयत्रविभाषेयम्। लिडंशे अतुसादौ नित्यं प्राप्ते, णलादावप्राप्ते। यङंशे त्वप्राप्तविभाषा। शोशूयते। शे\उfffदाईयते। संप्रसारणं नेति। अन्यथा शु\उfffदाआयेत्यादि स्यादिति भावः।
TBD.