Table of Contents

<<6-1-28 —- 6-1-30>>

6-1-29 लिड्यङोश् च

प्रथमावृत्तिः

TBD.

काशिका

विभाषा इति निवृत्तम्। प्यायः पी 6-1-28 इत्येतत् चशब्देन अनुकृष्यते। लिटि यङि च परतः प्यायः पी इत्ययम् आदेशो भवति। आपिप्ये, आपिप्याते, आपिप्यिरे। परत्वात् पीभावे कृते पुनः प्रसङ्गविज्ञानात् द्विर्वचनम्, एरनेकाचः इति यणादेशः। यङि आपेपीयते, आपेपीयेते, अपेपीयन्ते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

167 लिङ्यङोश्च। लिट् च यङ् चेति द्वन्द्वात्सप्तमी। `प्यायपी'ति सूत्रमनुवर्तते। तदाह–लिटि यङि चेति। ननु प्यायेर्लिटि दित्वं बाधित्वा परत्वात्पीभावे द्वित्वे `एरनेकाच'इति यणि `पिप्ये' इति रूपमिष्यते। तत्र द्वित्वं बाधित्वा परत्वात् पीभावे कृते पुनर्द्वित्वं न संभवति, `विप्रतिषेधे यद्वाधितं तद्बाधितमेवे'ति न्यायादित आह– पुनः प्रसङ्गेति। `पुनः प्रसङ्गविज्ञानात्सिद्ध'मिति परिभाषा। विप्रतिषेधे बाधितस्यापि पुनः प्रवृत्तेरभ्युपगमात्कृतेऽपि पीभावे द्वित्वादिकं सिद्धमिति तदर्थः।

तत्त्वबोधिनी

140 यङि –पेपीयते।

Satishji's सूत्र-सूचिः

TBD.