Table of Contents

<<6-1-23 —- 6-1-25>>

6-1-24 द्रवमूर्तिस्पर्शयोः श्यः

प्रथमावृत्तिः

TBD.

काशिका

द्रवमूर्तौ द्रवकाठिन्ये, स्पर्शे वर्तमानस्य श्यैङ् गतौ इत्यस्य धातोर् निष्ठायां परतः सम्प्रसारणं भवति। शिनं घृतम्। शीना वसा। शीनम् मेदः। द्रवावस्थायाः काठिन्यं गतम् इत्यर्थः। श्यो ऽस्पर्शे 8-2-47 इति निष्थानत्वम्। स्पर्शे शीतं वर्तते। शीतो वायुः। शीतमुदकम्। गुणमात्रे तद्वति च अस्य शीतशब्दस्य वृत्तिर् द्रष्टव्या। द्रवमूर्तिस्पर्शयोः इति किम्? संश्यानो वृश्चिकः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

829 द्रवमूर्ति। `श्यैङ् गतौ' इत्यस्य कृतात्वस्य `श्य' इति षष्ठी। द्रवमूर्तिश्च, स्पर्शश्चेति विग्रहः। मूर्तावित्यस्य विवरणं–काठिन्ये इति। संप्रसारणं स्यादिति। `ष्यङः संप्रसारण'मित्यतस्तदनुवृत्तेरिति भावः। तथा च श्यैङः क्ते आत्त्वे संप्रसारमे पूर्वरूपे शि त इति स्थिते–

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.