Table of Contents

<<6-1-24 —- 6-1-26>>

6-1-25 प्रतेश् च

प्रथमावृत्तिः

TBD.

काशिका

श्यः इति वर्तते। प्रतेरुत्तरस्य श्यायतेर् निष्ठायां परतः सम्प्रसरणं भवति। प्रतिशीनः। प्रतिशीनवान्। द्रवमूर्तिस्पर्शाभ्याम् अन्यत्र अपि यथा स्यातिति सूत्रारम्भः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

–

बालमनोरमा

831 प्रतेश्च। द्रवमूर्तिस्पर्शाभ्यामन्यत्रापि संप्रसारणप्राप्त्यर्थमिदम्। प्रतिशीन इति। प्रतिगत इत्यर्थः। अत्र `श्योऽस्पर्शे' इति नत्वम्।

तत्त्वबोधिनी

–

Satishji's सूत्र-सूचिः

TBD.