Table of Contents

<<6-1-22 —- 6-1-24>>

6-1-23 स्त्यः प्रपूर्वस्य

प्रथमावृत्तिः

TBD.

काशिका

निष्ठायाम् इति वर्तते, संप्रसारणम् इति च। स्फी इत्येतन् न स्वर्यते। स्त्यै ष्ट्यै शब्दसंघातयोः। द्वयोरप्येतयोः धात्वोः स्त्यारूपमापन्नयोः सामान्येन ग्रहणम्। स्त्या इत्यस्य प्रपूर्वस्य धातोर् निष्ठायां परतः सम्प्रसारणं भवति। प्रस्तीतः। प्रस्तीतवान्। सम्प्रसारणे कृते यण्वत्त्वं विहतम् इति। निष्ठानत्वं न भवति। प्रस्त्यो ऽन्यतरस्याम् 8-2-54 इति तु पक्षे मकारः क्रियते। प्रस्तीमः प्रस्तीमवान्। प्रपूर्वस्य इति किम्? संस्त्यानः। संस्त्यानवान्। प्रस्त्यः इत्येव सिद्धे पूर्वग्रहणम् इह अपि य्था स्यात्, प्रसंस्तीतः, प्रस्ंस्तीतवान्। तत् कथं प्रपूर्वस्य इति षष्ठ्यर्थे बहुव्रीहिः? प्रः पूर्वो यस्य धातूपसर्गसमुदायस्य स प्रपूर्वः तदवयवस्य स्त्यः इति व्यधिकरणे षष्ठ्यौ। तत्र प्रसंस्तीतः इत्यत्र अपि प्रपूर्वसमुदायावयवः स्त्याशब्दो भवति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

840 स्त्यः प्रपूर्वस्य। `स्त्यै'इत्यस्य कृताऽऽत्वस्य `स्त्य' इति षष्ठ\उfffद्न्तम्। `ष्यङः संप्रसारण'मित्यतः संप्रसारणमिति, `स्फाय स्फी'त्यतो निष्ठायामिति चानुवर्तते। तदाह– प्रादित्यादि। संप्रसारणे पूर्वरूपे `हलः' इति दीर्घे प्रस्ती- त इति स्थिते–

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.